Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१०
तुभ्यंo || हे नाथ ! तुभ्यं नमोऽस्तु । तुभ्यं किम्भूताय ?, त्रिभुवनार्त्तिहराय । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । त्रिभुवनस्यार्त्तिस्त्रिभुवनार्त्तिः । त्रिभुवनार्त्तिं हरतीति त्रिभुवनार्त्तिहरस्तस्मै त्रिभुवनार्त्तिहराय तुभ्यं नमोऽस्तु । तुभ्यं कथम्भूताय ?, क्षितितलामलभूषणाय । क्षितितलस्य अमलभूषणाय क्षि(तितलामलभूषणाय । तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, परमेश्वराय । परमश्चासावीश्वरश्च परमेश्वरस्तस्मै प ( रमेश्वराय ) । कस्य ?, त्रिजगत: । हे जिन ! तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, भवोदधिशोषणाय । भव एवोदधिर्भवोदधिः । भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै भ(वोदधिशोषणाय ) ॥२६॥
को विस्मयोऽत्र यदि नाम गुणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
१३
को विo || हे मुनीश ! नाम इति कोमलामन्त्रणे । यदि निरवकाशतया सर्वाङ्गव्यापकतयेत्यर्थ: । अशेषैः गुणैस्त्वं संश्रित इत्यन्वयः । अत्र को विस्मयः ? किमाश्चर्यमित्यर्थः । निर्गतोऽवकाशो यस्मात् स निरवकाशः । निरवकाशस्य भावः निरवकाशता तया । अन्यच्च - दोषैः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितोऽसि । दोषैः किंलक्षणैः ?, उपात्तविविधाश्रयजातगर्वैः । आप्तनानाश्रयोत्पन्नगर्वैरित्यर्थः । विविधाश्च ते आश्रयाश्च विविधाश्रयाः । उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः । उपात्तविविधाश्रयैर्जातो गर्वो येषां ते उपात्तविविधाश्रयजात)गर्वास्तैः उ ( पात्तविविधाश्रयजात) गर्वैः । एकस्मात् स्वप्नात् अन्यः स्वप्नः स्वप्नान्तरं तस्मिन् स्वप्नान्तरे ||२७|| उच्चैरशोकतरु-संश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ उच्चै० ॥ हे नाथ ! भवतस्तव रूपमाभाति । कथं ?, उच्चैः । रूपं किंलक्षणं ?, अशोकतरुसंश्रितम् । न विद्यते शोको यत्र असौ अशोकः । अशोकश्चासौ तरुश्च अशोकतरुः । अशोकतरौ संश्रितं अ ( शोकतरुसं (श्रितम् । पुनः किं(लक्षणं)रूपं ?, उन्मयूखम् । उल्लसन्तो मयूखा यस्य तत् उन्मयूखम् ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146