SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० तुभ्यंo || हे नाथ ! तुभ्यं नमोऽस्तु । तुभ्यं किम्भूताय ?, त्रिभुवनार्त्तिहराय । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । त्रिभुवनस्यार्त्तिस्त्रिभुवनार्त्तिः । त्रिभुवनार्त्तिं हरतीति त्रिभुवनार्त्तिहरस्तस्मै त्रिभुवनार्त्तिहराय तुभ्यं नमोऽस्तु । तुभ्यं कथम्भूताय ?, क्षितितलामलभूषणाय । क्षितितलस्य अमलभूषणाय क्षि(तितलामलभूषणाय । तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, परमेश्वराय । परमश्चासावीश्वरश्च परमेश्वरस्तस्मै प ( रमेश्वराय ) । कस्य ?, त्रिजगत: । हे जिन ! तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ?, भवोदधिशोषणाय । भव एवोदधिर्भवोदधिः । भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै भ(वोदधिशोषणाय ) ॥२६॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ १३ को विo || हे मुनीश ! नाम इति कोमलामन्त्रणे । यदि निरवकाशतया सर्वाङ्गव्यापकतयेत्यर्थ: । अशेषैः गुणैस्त्वं संश्रित इत्यन्वयः । अत्र को विस्मयः ? किमाश्चर्यमित्यर्थः । निर्गतोऽवकाशो यस्मात् स निरवकाशः । निरवकाशस्य भावः निरवकाशता तया । अन्यच्च - दोषैः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितोऽसि । दोषैः किंलक्षणैः ?, उपात्तविविधाश्रयजातगर्वैः । आप्तनानाश्रयोत्पन्नगर्वैरित्यर्थः । विविधाश्च ते आश्रयाश्च विविधाश्रयाः । उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः । उपात्तविविधाश्रयैर्जातो गर्वो येषां ते उपात्तविविधाश्रयजात)गर्वास्तैः उ ( पात्तविविधाश्रयजात) गर्वैः । एकस्मात् स्वप्नात् अन्यः स्वप्नः स्वप्नान्तरं तस्मिन् स्वप्नान्तरे ||२७|| उच्चैरशोकतरु-संश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ उच्चै० ॥ हे नाथ ! भवतस्तव रूपमाभाति । कथं ?, उच्चैः । रूपं किंलक्षणं ?, अशोकतरुसंश्रितम् । न विद्यते शोको यत्र असौ अशोकः । अशोकश्चासौ तरुश्च अशोकतरुः । अशोकतरौ संश्रितं अ ( शोकतरुसं (श्रितम् । पुनः किं(लक्षणं)रूपं ?, उन्मयूखम् । उल्लसन्तो मयूखा यस्य तत् उन्मयूखम् ।
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy