Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ अनुसन्धान ५२ त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ त्वामव्ययं० ॥ हे मुनीन्द्र ! सन्तस्त्वां एवंविधं प्रवदन्ति । त्वां किंविशिष्टं ?, अव्ययम् । न विद्यते व्ययो यस्य सः० सर्वकालस्थितिकस्वभावम् । पुनः-विभुम् । पुनः - अचिन्त्यम् । चिन्तनार्हो () चिन्त्यः, न चिन्त्योऽचिन्त्यः तम् । आध्यास्मि(त्मि)कैरपि चिन्तितुमस(श)क्यः । पुनः-असङ्ख्यम् । न विद्यते संख्या यस्य सोऽसंख्यस्तं असङ्ख्यगुणैरपरिमितं इत्यर्थः । पुनः-आद्यम् । पुनः-ब्रह्माणम् । बृंहति-अनन्तानन्देन वर्द्धते इति ब्रह्मा, तम् । पुनः-ईश्वरं-नाथं इत्यर्थः । पुनः-अनन्तं, न विद्यतेऽन्तो यस्य स अनन्तस्तं मृत्युरहितमित्यर्थः । पुनः-अनङ्गकेतुमामनन्ति । अनङ्गे केतुरनङ्गकेतुस्तम्, कामनाशनमित्यर्थः । पुनः-योगीश्वरम् । पुनः-विदितयोगम् । विदितो योगो येन सः । पुनःअनेकम् । [न] एकोऽने कस्तम् । ज्ञानेन सर्वगतत्वात् । पुनः-एकं, जीवद्रव्याद्यपेक्षया। पुनः- ज्ञानस्वरूपम् । ज्ञानमेव स्वरूपं यस्य सः । क्षायिककेवलज्ञानमयम् । पुनः-अमलम् । न विद्यते मलो यत्र सोऽमलस्तम् ॥२४॥ बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ बद्ध० ॥ हे विबुधार्चित ! विबुधैरचितो विबुधार्चितस्तस्य सम्बोधनं हे विबुधार्चित !। त्वमेव बुद्धोऽसि । कस्मात् ?, बुद्धिबोधात् । मतिप्रकाशादित्यर्थः । बुद्धोधो बुद्धिबोधस्तस्मात् । त्वं शङ्करोऽसि । कस्मात् ?, भुवनत्रयशंकरत्वात् । भुवनानां त्रयं भु(वनत्र)यं । शं करोतीति शंकरः, शंकरस्य भावः शंकरत्वं, भुवनत्रयस्य शंकरत्वं भु(वनत्रयशंकर)त्वं, तस्मात् । हे धीर ! त्वं धाताऽसि । कस्मात् ?, विधानात् । कस्य ?, शिवमार्गविधेः । हे भगवन् ! व्यक्तं त्वमेव पुरुषोत्तमः असि । पुरुषेषूत्तमः ॥२५॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146