Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसन्धान ५२ यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ वृत्तिः- प्रणम्य परमानन्दप्रदं निजगुरोः क्रमम् । बालबोधकृते भक्तामरस्यार्थो निदर्श्यते ॥१॥ भक्ता० यः सं० । व्याख्या-किल इति सत्ये। तं प्रथमं जिनेन्द्रं अहमपि स्तोष्ये । स्तोष्ये इति क्रियापदम् । कः कर्ता ? अहम् । कथं ?, अपि स्तोष्ये । कं?, जिनेन्द्रम् । किंविशिष्टं ? प्रथमं तम् । कं? यः सुरलोकनाथैः संस्तुतः । 'संस्तुत' इति क्रियापदम् । कैः कर्तृभिः?। सुरलोकनाथैः । सुराणां लोकाः सुरलोकाः, सुरलोकानां नाथाः सुरलोकनाथाः, तैः-इन्द्रैः संस्तुतः । कः? । यः । सुरलोकनाथैः किंलक्षणैः ?। उद्भूतबुद्धिपटुभिः । उद्भूता चासौ बुद्धिश्च उ०द्धिः० (उद्भूतबुद्धिः) । उद्भूतबुद्ध्या पटवः उ०वः.(उद्भूतबुद्धिपटवः) तैः उ०भिः० (उद्भूतबुद्धिपटुभिः) । कुतः?। सकलवाङ्मयतत्त्वबोधात् । सकलं च तद् वाङ्मयं च स०यं० (सकलवाङ्मयं), सकलवाङ्मयस्य तत्त्वं सत्त्वं० (सकलवाङ्मयतत्त्वं), सकलवाङ्मयतत्त्वस्य बोधः स०धः० (सकलवाङ्मय-तत्त्वबोधः), तस्मात् स० (सकलवाङ्मयतत्त्व) बोधात् । कैः कृत्वा संस्तुतः ?। स्तोत्रैः। किंलक्षणैः स्तोत्रैः ?। जगत्रितयचित्तहरैः । जगतां त्रितयं जगत्त्रितयः(यं), जगत्त्रितयस्य चित्तानि जग०नि० (जगत्त्रितयचित्तानि), जगत्रितयचित्तानि हरन्तीति जगत्त्रितयचित्तहराणि, तैः ज०हरैः० (जगत्त्रितयचित्तहरैः) । पुनः उदारैः-स्फारैः । किं कृत्वा स्तोष्ये ?। प्रणम्य । कथम् ?। सम्यग्। किं कर्मतापन्नम् ?। जिनपादयुगम् । पादयोर्युगं पादयुगं, जिनस्य पादयुगं जि०गं० (जिनपादयुगम्) । किंलक्षणम् ?। आलम्बनम्। केषाम् ?। जनानाम् । जनानां किं कुर्वताम् ?। पततां ब्रुडताम् । क्व?। भवजले । भव एव जलं तस्मिन् भवजले । कस्मिन् काले जिनपादयुगं आलम्बनम्?। युगादौ । युगस्य आदिः युगादिः, तस्मिन् युगादौ । पुनः कीदृशं जिनपादयुगम् ?। उद्योतकम्। उद्योतयतीति उद्योतकं तत् उद्योतकारकम् । कासाम् ?। भक्ता० प्रभाणां (भक्ताऽमरप्रणतमौलिमणिप्रभाणाम्) । भक्ताश्च ते अमराश्च भ० मराः (भक्तामराः), प्रणताश्च ते मौलयश्च प्रणतमौलयः । भक्तामराणां प्रणतमौलयः भ०मौलयः(भक्तामरप्रणतमौलयः)। भक्ता०(भक्तामरप्रणत) मौलीनां मणयः भ०(भक्तामरप्रणतमौलि) मणयः । भ०(भक्तामरप्रणतमौलि) मणीनां प्रभां(भा)भ०(भक्तामरप्रणतमौलिमणि) प्रभां(भा), तेषां भ०(भक्तामरप्रणतमौलिमणि)

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 146