Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 202
________________ २१० अनेकान्तजयपताकामोहव्यावृत्त्यर्थमपि अस्य प्रवृत्तिरयुक्ता इत्याह- तथाग्रहे एकत्वेन प्रहे मोहाऽभावात् , भावे वा तथाग्रहेऽपि मोहस्य । किमित्याहनिवृत्त्यनुपपत्तेः अनुपपत्तिश्च उपायाऽभावात् , तत्स्वरूपग्रहेऽपि तन्मो हस्य निवृत्तौ क उपाय इति ?, अनेन अनन्तरोदितेन, शिंशपादिप्रतिपत्तौ सत्यां वृश्नाऽप्रतिपत्तिः प्रत्युक्ता । कुत इत्याह- तुल्ययोगक्षेमत्वात शिंशपात्वस्य एव वृक्षत्वाद् इत्यर्थः । अन्यथेत्यादि । अन्यथा एवमनभ्युपगमे, कथंचित् तद्भेदापत्तेः शिंशपात्व-वृक्षत्वयोर्भेदापत्तेः/ व्यावृत्तिभेदोऽभ्युपगम्यत एव शिंशपात्व-वृक्षत्वयोः शास्त्राऽधि. कृताऽनित्यत्व-कृतकत्वयोर्वा इति चेत् । एतदाशङ्कयाह- न तर्हि तदेकखभावता शिंशपादेः एकस्वभावता, स व्यावृत्तिभेदः, अपारमार्थिक इति चेत् । एतदाशङ्कयाह- किमर्थमस्य अपारमार्थिकस्य उपन्यासः ?, व्यवहारार्थमिति चेत् । एतदाशङ्कयाह- कीडशोऽन सता व्यवहारः ?, परमार्थतो भ्रान्त इति चेद् व्यवहारः । एतदाशङ्कयाह- न तत्त्वतः परमार्थेन, साध्य-साधनभावो भ्रान्तव्यवहार विषयत्वादिति । एतेन इत्यादि । एतेन अनन्तरोदितेन, “सर्व एवं अयमनुमानाऽनुमेयव्यवहारो बुद्धयारूढेन धर्म-धर्मिन्यायेन" इत्येत दपि भवता उक्तं प्रत्युक्तम् । कुत इत्याह- अस्य तावद् बुद्धयाऽऽ रूढस्य धर्म-धर्मिभावस्य, अर्थाऽप्रतिबद्धत्वाद् वस्त्वऽप्रतिबद्धत्वात्। अप्रतिबद्धत्वं च तस्य अर्थस्य, एकत्त्वेन एकस्वभावत्वेन हेतु अतथाभूतत्वात् धर्म-धर्मितया अभूतत्वात् । यदि नामैवं ततः किमि त्याह- नीलात् सकाशात् , नील-पीतबुद्ध्याऽऽकारतुल्यत्वा बुद्ध्याऽऽरूढधर्म-धर्मिभावस्य ततोऽभावादित्यर्थः, ततश्च परप्रति पादनोपायत्वाऽनुपपत्तेः तदसद्रूपतया नाऽसत उपायत्वम् । इत्याह- अतिप्रसङ्गात् असत उपायत्वे सर्वसिद्धयापत्त्या अतिप्रसङ्गा इत्येवमुक्तनीतेः असिद्धेर्न स्वभावहेतोः सकाशात , तदवगति प्रक्रमात् प्रत्यक्षनिर्विकल्पकत्वाऽवगतिः ॥ एवं न कार्यहेतोरपि, तनिर्विकल्पकत्वकार्यत्वेन कस्यचि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288