Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 249
________________ खोपज्ञटीकासहिता। २५७ त्यादि । एतेनैकसामान्यवृत्तिनिराकरणेन, नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता विशेषेषु, नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः, व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् ।। आह- अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निफलत्वात् ; तथाहि- यदि सनातनं वस्तुसद् व्याप्येकमनवयवं सामान्यवस्तु न स्याद् न तदा देश-काल-स्वभावभेदभिन्नेषु घट-शरावो-ष्ट्रिको-दश्चनादिषु बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्यभिन्नौ बुद्धि-शब्दौ स्याताम् । न खलु हिम-तुषार-करकोदकाङ्गार-मुर्मुर-ज्वालानलझञ्झा-मण्डलिको-त्कलिकापवनखदिरो दुम्बर-बदरिकादिष्वत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तत इति । अतोऽस्य यथोक्ताभिन्नबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यमिति ॥ आह परः, अनुभवसिद्धत्वात् सामान्यस्य, विशेषेषु तुल्यबुद्धिभावेन, न युज्यते सहृदयतार्किकस्य भावाशून्यस्य, तत्प्रतिक्षेपेण सामान्यप्रतिक्षेपेण, आत्मानमायासयितुम् । कुतो न युज्यत इत्याहआयासस्य निष्फलत्वात् । एतदेवाह- तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि सनातनं नित्यम् ; वस्तुसत्- अपरिकल्पितम् , व्यापि विशेषव्यापनशीलम् , एकं स्वरूपेण, अनवयवम्- अवयवराहतम् , सामान्यवस्तु न स्यात् ; ततः किं स्यादित्याह- न तदा देश-कालखभावभेदभिन्नेषु, केष्वित्याह- घट-शरावो-ष्ट्रिको दश्चनादिषु उदञ्चनो लोट्टकः, आदिशब्दादलिजरादिग्रहः, बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्येवम् , अभिन्नौ तुल्यावेकरूपावित्यर्थः; कावित्याहबुद्धि-शब्दौ स्याताम् । किमिति न स्यातामित्याह- न खल्वित्यादि नैव 'हिम-तुषार-करकोदकानि च' इत्यनेन जलभेदानाह, 'अङ्गार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288