Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 255
________________ स्वोपज्ञटीकासहिता। २६३ बुद्ध्याकार एवायमिति चेत् । कोऽस्य हेतुः ? इति वाच्यम्। तदेककार्यकारिणामतत्कारिभेद इति चेत् । न, इन्द्रियादिभिर्व्यभिचारात् । न रूपज्ञानाद्येककार्यमिह गृह्यते, अपि तु समानजातीयक्षणोत्पादस्तेषामतत्कारिभेदोऽत्र विवक्षित इति चेत् । न सर्वेषामेवासौ विद्यते, रूपज्ञानादिभावेऽपीन्द्रियादिसमानजातीयक्षणोत्पत्तेः, इति तैरेव व्यभिचारात् ॥ बुद्ध्याकार एवायं समानाकारो घटादिमतः, इति चेत् । एतदाशङ्कयाह-कोऽस्य हेतुः ? इति वाच्यम् । तदेककार्यकारिणामिह प्रक्रमे, मृबुद्धयाख्यैककार्यकारिणां घट-शरावो-ष्ट्रिको-दञ्चनादीनाम् , अतत्कारिभेदः- अतत्कारिभ्यो हिम-तुषार-करकादिभ्यो भेदोऽतत्काभेदः, इति चेदस्य हेतुः । एतदाशङ्कथाह- नेत्यादि न नैतदेवम् , इन्द्रियादिभिर्व्यभिचारात्, इन्द्रिय-मनस्कारा-ऽऽलोकादयस्तदेककार्यकारिणोऽतत्कारिभिन्नाः, न च यथोक्तबुद्धयाकारहेतवः । आह- न रूपज्ञानादि,आदिशब्दाद् रसज्ञानादिग्रहः, एककार्यामह गृह्यते येन तदेककार्यकारित्वमिन्द्रियादीनां भवति; अपि तु समानजातीयक्षणोत्पाद एकं कार्यमिह गृह्यते, तेषां समानजातीयैककार्याणाम् , अतत्कारिभ्यः समानजातीयैककार्याकारिभ्यो भेदः, अत्र प्रक्रमे, विवक्षित इति चेत्। एतदाशङ्कयाह- नेत्यादि न नैतदेवम् । कुत इत्याह- सर्वेषामेव इन्द्रियादीनाम् , असौ समानजातीयक्षणोत्पादो विद्यते, कथमित्याहरूपज्ञानादिभावेऽपि. सति, इन्द्रियादिसमानजातीयक्षणोत्पत्तेः का. ' रणात् , तैरिन्द्रियादिभिः, व्यभिचारात् । न हीन्द्रियादीनामपि समानजातीयक्षणोत्पादः, अतत्कारिभेदश्च न विद्यते, तथापि न ते समानबुद्धथाकारहेतव इति तैरेव व्यभिचारः ।। तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेद इह गृह्यत इति चेत् । न, तस्य तेभ्यो भेदा-ऽभेदविकल्पानुपपत्तेः- भेदे, तेषामिति संबन्धाभावः, तादात्म्याद्यसिद्धेः, भेदमात्रत्वात् , वस्तुत्वापत्तेचा अभेदे त एव ते । इति कथमसमानास्तद्धे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288