Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 262
________________ २७० अनेकान्तजयपताका तदुच्छेदापत्तेः । इति तथाविधः समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ॥ __ अत्राह- न नित्यता केषाश्चिदपि भावानाम् । एतदाशङ्क्याहकिं न ? इति वाच्यम् । न तद्धेतुनित्यभावहेतुः, तथाभूताद् नित्यभावजननस्वभावजननस्वभावादिति योऽर्थः हेतोः कारणात् , तस्येव-प्रक्रमादूर्मिजननस्वभावसमुद्रक्षणस्येव, यदिति चेत् , ऊर्मिजन नस्वभावो हि समुद्रक्षण मिजननस्वभावसमुद्रक्षणजननस्वभावात समुद्रक्षणादुत्पन्न इति विद्यतेऽस्य तथाभूतो हेतुः, नैवं नित्यभावजननस्वभावजननस्वभावो हेतुरस्ति, तन्नित्यत्वविरोधादित्यभि प्रायः । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , मोक्षहेतोविशिष्टज्ञानादेः, कैश्चिद् नैयायिकादिभिः, तथाविधत्वाभ्युपगमाद् नित्यभावजननस्वभावत्वाभ्युपगमात् ; तथा, अहेतोरपि- आविद्यमानहेतो. रप्यनाद्यण्वादेः, किमित्याह- तथाभावकल्पनाविरोधात् तथाभावो नित्यभावस्तत्कल्पनाविरोधात्; तथाहि- अहेतुरेव कश्चित् स स्वभावः सन् नित्य इति किमत्र क्षुणम् ? । नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोध इत्याशङ्कापोहायाह- अस्यापि अधिकृतनित्यस्य, अर्थ, क्रियोपपत्तेः । उपपत्तिश्च, तत्करणस्वभावत्वात्- अर्थक्रियाकरणस्वर भावत्वात् । अयं चात्र प्रधान इति विपक्षे बाधामाह- अनित्यत्वादेः 'इहार्थक्रियायामप्रयोजकत्वात्' इति योगः । अप्रयोजकत्वं च सर्वतः सर्वार्थक्रियाभावेन । न ह्यनित्य इत्येव सर्वो भावः सर्वामर्थ क्रियां करोति, नित्य इत्येव वा, तथाऽदर्शनात् । अतो यो यदर्थक्रि याकरणस्वभावः स तां करोतीति तत्करणस्वभावत्वमेवात्र प्रयोज कमिति । अत एवाह- तत्करणस्वभावत्वस्य च अर्थक्रियाकर णस्वभावत्वस्य च, प्रयोजकत्वात् , 'इह' इति वर्तते; तथाहि- यतो ऽर्थक्रियाकरणस्वभावः, अतोऽर्थक्रियां करोति, किमत्रानित्यत्वाति ना ?, सत्यप्यस्मिन् सर्वतः सर्वार्थक्रियाऽसिद्धेरिति । तथा, त? चित्र्येण स्वभाववैचित्र्येण, पदितदोषासिद्धेः क्रम-योगपद्यात Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288