Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 266
________________ २७४ अनेकान्तजयपताका नवयवं सामान्यम्' इत्यभिदधति जैनाः । अतः किमुच्यते-'न विषं विषमेव मोदकाद्यभिन्नसामान्याव्यतिरेकात्' इत्यादि। किं तर्हि ? । समानपरिणामः । स च भेदाविनाभूतत्वाद् न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् ।। यच्चोक्तं पूर्वपक्षग्रन्थे, 'सामान्यविशेषोभयरूपत्वे सति, वस्तुनो घटादेः, सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि, तदपि; किमित्याह- जिनमतानभिज्ञतासूचकमेव केवलम् , न पुनरिष्टार्थप्रसाधकं वस्त्वनुपपत्तिरिष्टोऽर्थ इति न तत्प्रसाधकम् । कथमित्याह- न हीत्यादि न यस्माद् मधुरक-लड्डुकादिविशेषानान्तरमाभिन्नम् , सर्वथैकस्वभावमेकमनवयवं सामान्यमित्यभिदधति जैना भणन्त्याहताः । अतः किमुच्यतेऽनभ्युपगतोपालम्भप्रायम् , यदुत'न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात्' इत्यादि । किं तार्ह ? । समानपरिणामः सामान्यमित्यभिदधति जैना इति । स च समानपरिणामः; किमित्याह- भेदाविनाभूतत्वात् कारणात् , न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि । कथं नेत्याह- सर्वथा देकत्वे समानपरिणामैकत्वे, समानत्वायोगात्। न ह्येकं समानमिति भावना ॥ .. स्यादेतत् समानपरिणामस्यापि प्रतिविशेषमन्यत्वादसमानपरिणामवत् तद्भावानुपपत्तिरिति । एतदप्ययुक्तम् , सत्यप्यन्यत्वे समानासमानपरिणामयोभिन्नस्वभावत्वात् ; तथाहि-समानधिषणा-ध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबु यभिधानजननस्वभावस्त्वितर इति । यथोक्तसंवेदनाभिधानसंवेद्याभिधेया एव च विषादय इति प्रतीतमेतत् ; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपम्, तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात् । न तु मोदके, तत्समानपरि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288