Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 283
________________ खोपवाटीकासहिता। २९१ इति याचितकमण्डनमेतत् । कुत इत्याह- पुरुषस्यैकस्वभावताभ्युपगमदौर्गत्येन दारिद्र्येण, अनेकगुणसंभवविभूतिवैकल्यादिति प्र. कटम् । तदेकस्वभावतायां च पुरुषस्यैकस्वभावतायां च सत्याम्, न भिन्नस्वभावास्तदनुभवाः पश्चानुपूाऽर्थ्या-ऽऽतुरा-ऽऽध्याप्य-सुतानुभवाः, इति- एवं, कथं दातृत्व-वैद्यत्वादिनिश्चयभेदः ? । कथं च न स्यादित्याह- तदनुभवनिबन्धनत्वात् एकस्वभावपुरुषानुभवनिब. न्धनत्वाद् , निश्चयानाम् । तद्विभिन्न स्वभावतायां च प्रक्रान्तपुरुषविभिन्न स्वभावतायां च, कथं वस्तुन एकस्वभावतैव ? इति चिन्त्यम्, नैवेत्यर्थः ।। __स्वोपादानभेदादनुभवभेदः न वस्तुभेदादिति चेत् । न, सर्वथैकस्वभावत्वे वस्तुनोऽनेकानुभवसहकारित्वानुपपत्तेः, अन्यतरविज्ञानजन्मसहकार्येकस्वभावत्वेनास्य तदपरविज्ञानजन्मसहकार्येकस्वभावत्वविरोधात् । अनेकविज्ञानजन्मसहकार्येकस्वभावमेतदिति चेत् । न, इत्थंभूतस्यैकत्वायोगात, सर्वथैकस्मादनेकजन्मव्याहतेः, एकान्तैकस्यानेकत्रानुपयोगात् , तदन्यतरवत् तदितरस्यापि निमित्ताभेदेन तत्त्वापत्तेः; अन्यथा का. त्स्न्येनैकत्रोपयोगायोगादिति । न च नास्त्येव तत्राधिकृतशक्तिः, आयत्यां फलभावात् , व्यवहितानामपि हेतोः फलानामुत्पत्तिदर्शनात् , मूषिकालविकारवत् ॥ पराभिप्रायमाह- खोपादानभेदात् कारणात् , अनुभवभेद इह प्रक्रमे पुत्राद्यनुभवभेदो जनकादिनिश्चयानुभवनिबन्धनः, न वस्तुभेदादिति चेद् वस्तुनः पुरुषस्यानेकानुभवसहकार्येकस्वभावत्वादिति । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , सर्वथैकस्वभावत्वे, वस्तुनः पुरुषादेः । किमित्याह- अनेकानुभवसहकारित्वानुपपत्तेः । अनु. पपत्तिश्च, अन्यतरविज्ञानजन्मसहकार्येकस्वभावत्वेन हेतुना, अस्य वस्तुनः, तदपरविज्ञानजन्मसहकार्यकस्वभावत्वविरोधात् । अनेकेत्यादि अनेकानि च तानि पुत्राद्यपेक्षया विज्ञानानि च, तेषां जन्म, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288