Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 258
________________ अनेकान्तजयपताका ङ्गीकरणे च, अङ्गीकृत एव मदीयोऽभ्युपगमः, तुल्यसामर्थ्यस्यैव समानपरिणामत्वात् । एतदेव विपक्षबाधाभिधानेनाभिधातुमाहकथमङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थेभ्य इन्द्रियादिभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः । न रूपादिज्ञानैककार्यकारिभ्योऽपीन्द्रियादिभ्यः स्वसंततौ तुल्यानि समानजातीयकार्याण्युपपद्यन्ते, यदुत सर्वाणीन्द्रियाण्येव मनस्कारा वेत्यादीति भावना । आह च- इन्द्रियादिषु अतुल्यसामर्थेषु, तददर्शनात् तुल्य. समानजातीयकार्यादर्शनादिति, भावितमेतत् । यदि नामैवं ततः किमित्याह- तदतुल्यसामर्थ्य निबन्धनं इन्द्रियादीनामतुल्यसामभर्यनिबन्धनम्, एतत् तुल्यसमानजातीयकार्यादर्शनम् । अतोऽन्यत् प्रक्रमात् तुल्यसमानजातीयकार्यदर्शनं गृह्यते, एतच्चेह मृदूपमात्रतयाधिकृतघट-शरावो-ष्ट्रिको-दञ्चनादिविषयमेवावगन्तव्यम् , तत्तुल्यसामर्थ्यकारणमिति घटादीनां तुल्यसामर्थ्यकारणम् , अतुल्यसामर्येभ्यो हिमादिभ्य एव मृद्रूपताऽयोगात्, इति सन्यायः, अन्वय-व्यतिरेकबलप्रतिष्ठितत्वात् तत्तुल्यसामर्थ्यस्य । एवमपि का. ऽवेष्टसिद्धिरित्याह- तुल्यसामथ्यमेव च नोऽस्माकम् , भावानां घटादीनाम्, समानपरिणामः, इति परिभाव्यतामेतत् । एतदुक्त भवति- येषामेव भावानां पिण्डादीनां तुल्यं सामर्थ्य त एव घटादीन मृद्रूपमात्रतया तुल्यान् समानजातीयान् कुर्वन्ति, नान्ये हिमादयः, घटादिष्वेव च 'मृद् मृद्' इति समानाकारा बुद्धिरुत्पद्यते, न * हिमादिषु; अतस्तात्त्विकसमानपरिणामनिबन्धनयामति सूक्ष्माधियाऽऽलोचनीयम् ॥ - अविषय एवायं बुद्ध्याकारोऽनादिवासनादोषादुपप्लव इति चेत् । केयं वासना नाम ?-किं बोधमात्रम् , उतान्यदेव कि'श्चित् । यदि बोधमात्रम् , अनुत्तरज्ञानेऽपि तथाविधाकारापत्तिः, तस्यापि बोधमात्रभावात् , अनिष्टं चैतत् , तत्र तदनभ्युपगमात् । अथान्यदेव किश्चित् । तदेवास्य विषय इति कथमकिन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288