Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 250
________________ २५८ अनेकान्तजयपताका मुर्मुर ज्वालानलाच' इत्यनेन त्वग्निभेदान्, 'झञ्झा - मण्डलिकोत्कलिकापवनाश्च' इत्यनेन वायुभेदान्, 'खदिरो-दुम्बर- बदरिकादयश्च' इत्यनेन च वनस्पतिभेदानाह, आदिशब्दः प्रत्येकं धारादिसंग्रहार्थः; एतेष्वत्यन्तभिन्नेषु, जातिभेदापेक्षया बहुषु विशेषेषु भेदेषु, एकाकारा बुद्धिर्भवति, तथाननुभवात् । नाप्येकाकारः शब्दः प्रवर्तत इति 'मृद् मृद्' इत्यादिशब्दवत् । अतोऽस्य सामान्यस्येति योगः । यथोक्तं च तद् 'मृद् मृद्' इत्यादिरूपतयाऽभिन्नं च तद् बुद्धि-शब्दद्वयं चेति विग्रहः, प्रवृत्तिनिबन्धनं प्रवृत्तिकारणम्, तस्य वस्तुसतः पारमार्थिकस्य सामान्यस्य सत्त्वमाश्रयितव्यमिति || अत्रोच्यते - न खल्वस्माभिर्यथोक्त बुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि १ । एकादिधर्मयुक्तं परपरिकल्पितं सामान्यमिति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो निदर्शितमेव प्रपञ्चतस्त्वन्यत्र वृत्त्ययोग-सङ्ख्यादिव्यभिचार- तद्वत्प्रत्ययप्रसङ्गादिना युक्तिकलापेन निराकृतमिति नेह प्रयासः ।। 9 I एतदाशङ्क्याह- अत्रोच्यते न खल्वस्माभिः जैनै:, यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? । एकादिधर्मकं परपरिकल्पितं सामान्यमिति सामान्यं निषिध्यते । तच्चैकादिधर्मकं सामान्यम्, यथा विशेषवृत्त्यायोगेन हेतुना, न घटां प्राश्वति- नं घटनं गच्छति, तथा लेशतो निदर्शितमेव, प्रपश्चतस्त्वन्यत्र स्याद्वाद कुचोद्यपरिहारादौ वृत्त्ययोगश्च संख्यादिव्यभिचारश्च तद्वत्प्र त्ययप्रसङ्गादिश्चेति समास:, तेन; केनेत्याह- युक्तिकलापेन उपपत्ति संघातेन, निराकृतमिति कृत्वा, नेह प्रयासो नेह प्रयत्नविशेषः । तत्र वृत्त्ययोगो दर्शित एव । 'यदेकबुद्धयेक शब्द प्रवृत्तिनिमित्तं तत् सामा न्यम्' इत्यभ्युपगमे संख्यादिभिर्व्यभिचारः - एकसंख्यापि भवेत्येक बुद्धधेकशब्दप्रवृत्तिनिमित्तम्; आदिशब्दात् तत्समवायश्च न चासौ सामान्यमिति व्यभिचारः । तथाभावेऽपि सामान्यस्य विशेषेषु तद्वत " Jain Education International " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288