Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 218
________________ २२६ अनेकान्तजयपताका थापि दोष:, तथा चाह - न तावत् साधारणरूपभावः तत्तुल्यरूपता । कुत इत्याह- चेतनाचेतनत्वेन हेतुना तद्वैलक्षण्यसिद्धेःतयोरविकल्पक-बहिःस्थयोर्वैलक्षण्यसिद्धेः । दोषान्तरमाह- सामान्यवेदनेन हेतुना साधारणरूपभावतः तदप्रामाण्यप्रसङ्गाच्च - अविकल्पकस्याप्रामाण्यप्रसङ्गाच्च न तत्साधारणरूपभावस्तत्तुल्यरूपतेति । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च- तस्याविकल्पकस्य तदूग्रहणस्वभावता बहिःस्थग्रहणस्वभावता तस्यास्तदङ्गीकरणं तत्तुल्यरूपताङ्गीकरणमिति विग्रह:, तस्मिन् । किम् ? इत्याह- विकल्पज्ञानेsपि तुल्यः परिहारः तत्तद्बहिःस्थ तुल्यरूपमित्ययम् । कुतः ? इत्याह- तस्यापि विकल्पज्ञानस्य तद्ग्रहणस्वभावताभ्युपगमाद् बहिःस्थग्रहणस्वभावताभ्युपगमात् । तथाविधेत्यादि तथाविधप्राह्याभावाद् विकल्पज्ञानग्राह्याभावादस्य विकल्पज्ञानस्य कुतस्तद्ग्रहणस्वभावता बहिःस्थग्रहणस्वभावतेति चेत् । एतदाशङ्कयाह- न, तथाविधग्राह्याभावे विकल्पज्ञानग्राह्याभावे प्रमाणाभावात् । अभावश्च प्रत्यक्षस्य तावत् स्वलक्षणविषयत्वेन हेतुना तत्र तथाविधमान ह्याभावेऽप्रवृत्तेः, अनुमानस्याप्यनुपलब्धिरूपस्योपलब्धिलक्षणप्राप्तार्थ: विषयत्वात् । ततः किम् ? इत्याह- तस्य तथाविधग्राह्यस्य तदभावा भ्युपगमादुपलब्धिलक्षणप्राप्तार्थविषयत्वाभावाभ्युपगमात् । वनायैवाह - न हि साधारणं रूपं विकल्पप्राह्यमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः । कुत इत्याह- तदवस्तुत्वप्रतिज्ञानात् तस्य साधा रणरूपस्यावस्तुत्वप्रतिज्ञानात्, अनीदृशानुपलब्धेश्चानुपलब्धिलक्षणप्रा सानुपलब्धेश्च । किमित्याह- अभावनिश्चायकत्वानुपपत्तेः तथा भ्युपगमात् । एतेनेत्यादि एतेनानन्तरोदितेन तथाविधग्राह्याभावे प्रम णाभावेन । किमित्याह- तद्बाधकप्रमाणप्रवृत्तिः प्रत्युक्ता तस्मि स्तथाविधप्राह्ये बाधकप्रमाणवृत्तिर्निराकृता । कुत इत्याह- उक्तव यथोक्तं तथा प्रत्यक्षादेः प्रत्यक्षानुमानद्वयस्य तद्बाधकत्वायोगात् तथा विधग्राह्यबाधकत्वायोगात् । युक्त्या तदयोगस्तथाविधग्राह्यायोग एतद्भान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288