Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 237
________________ खोपाटीकासहिता ।। २४५ नित्यादिरूपयथादृष्टविशेषनिश्चयपरित्यागेनावस्थाभेदग्रहणतो विशेषान्तरसमारोपेण प्रवृत्तेः' इत्यपि वक्तुं शक्यत्वात् । नित्यस्य भेदाभेदविकल्पद्वारेणावस्थाभेद एवायुक्त इति चेत् । न, ततस्तनेदाभेदविकल्पाप्रवृत्तेः, अवस्थानामुत्पक्षितत्वात् , तथातत्त्वानामपि समचित्रनिम्नोन्नतसमारोपवत् तथासमारोपहेतुत्वावि. रोधः, आन्तरदोषसामोत् , तस्य चासदर्शनवासनारूपत्वात् , नित्यप्रमातुरपि तत्स्वभावत्वतोऽनित्यस्याभेदवासनावत् तथावासनोपपत्तेः । इतीतरवाप्युक्तन्यायतुल्यत्वमिति ।। . आह- ननूक्तमत्र प्राक् , 'यथादृष्टविशेषानुसरणं परित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपाद् न तेभ्यस्तनिश्चितिः इति । एतदाशङ्क्याह- उक्तमिदम् , अयुक्तं तूक्तम् । कथमित्याहइतरत्रापि प्रक्रमाद् वस्त्वनित्यत्वःदौ, उक्तन्यायतुल्यत्वात् 'यथाद्दष्टविशेषानुसरणं परित्यज्य' इत्यादिरुक्तो न्यायः, अस्य तुल्यत्वात् । तुल्यत्वमेवाह- अनित्यादिविकल्पानामपीत्यादिना । तत्र 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यादि भङ्ग्यन्तरेणाधिकृतपक्षविपक्षे योजयति- अनित्यादिविकल्पानामपीति न केवलं नित्यादि. विल्पानाम् , नित्यादिरूपथथादृष्टविशेषनिश्चयपरित्यागेन नित्यादिरूपस्य यथादृष्टविशेषो नित्यादिरूप एव तन्निश्चयपरित्यागेन । परित्यागश्चावस्थाभेदग्रहणतोऽवस्थाभेदग्रहणात् कारणात् , विशेषान्तरसमारोपण्णाभेदसमारोपेण, प्रवृत्तेरनित्यादिविकल्पानामपि । इत्यपि एवमपि, वक्तुं शक्यत्वात् , नात्र जिह्वान्तरे डोङ्गरः। नित्यस्येत्यादि नित्यस्य वस्तुनः, भेदाभेदविकल्पद्वारेण- एतन्मुखेनेत्यर्थः, अवस्थाभेद एवायुक्तोऽघटमानकः, तथाहि-तास्ततो भेदेन वा स्युः, अभेदेन वा ? । भेदे 'अस्य ताः' इति कः संबन्धः ? । अभेदेऽवस्थातैवासौ, अवस्था वा, इति नित्यस्यावस्थाभेदाभाव इति चेत् । एतदाशङ्क्याह- नेत्यादि म नैतदेवम् , व्रतो नित्याद् वस्तुनः, तद्भेदा-ऽभेदविकल्पाप्रवृत्ते:- तासामवस्थानां दाभेदविकल्पाप्रवृत्तेः । अप्रवृत्तिश्चावस्थानामुत्प्रेक्षितत्वात- अवस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288