Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 245
________________ खोपज्ञटीकासहिता। २५३ कामलस्य सामर्थ्याद्धि तत् तथा, तदभावेऽभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अविगानतोऽविगानेन लोके, तथा दोषजत्वेन, तत्प्र. तीतेः शङ्खपीतज्ञानप्रतीतेरिति निर्लोठ्यानुषङ्गिकम्, प्रकृतमाह- अतो निर्विकल्पकवत् इति निदर्शनम् । विकल्पकमप्यभ्रान्तमेष्टव्यमिति योगः । किंविशिष्टमित्याह- अक्षव्यापारानुसारि- अक्षव्यापारानुसरणशीलम् , यथावस्थितवस्तुविषयं सामान्य-विशेषरूपवस्तुगोचरम् , अविगानतोऽविगानेन, स्पष्टतुल्यविनिश्चयं प्रमात्रन्तरमधिकृत्य, सत्क्षयोपशमजन्म विशिष्टक्षयोपशमोत्पादम्, बाधविज्ञानरहितं तथानुभवदायेन, अवगमादिफलं परिच्छित्ति-प्रवृत्ति-प्राप्तिफलमर्थमधिक. त्य, अभ्रान्तमेष्टव्यम् । अन्यथा तदनिष्टौ, उक्तवद् यथोक्तं तथा, तत्तत्त्वनिश्चयाभावो यथावस्थितवस्तुतत्वनिश्चयाभावः, प्रत्यक्षस्यानिश्चायकत्वात् , विकल्पानां च मिथोविरुद्धानामपि प्रवृत्तेरिति । इतिएवं, विकल्पकत्वेऽपि सति, न भ्रान्तमधिकृतविज्ञानं सामान्यविशेषावसायरूपमिति । अतोऽस्माद् विज्ञानात्, सामान्यविशेषरूपत्रस्तुसिद्धिरिति । __ यच्चोक्तम्-'एक सामान्यमनके विशेषाः' इत्यादि । तदप्ययु. क्तम् , तथानभ्युपगमात् । न हि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् । तथाहि- तदेकादिस्वभावं सामान्यमनेकेषु दिगदेश-समय-स्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तेत, देशेन वा । न तावत्सर्वात्मना, सामान्यानन्त्यप्रसङ्गात् , विशेषाणामनन्तत्वात् , एकविशेषव्यतिरेकेण वाऽन्येषां सामान्यशून्यतापत्तेः, आनन्ये चैकत्वाविरोधात् । नापि देशेन, सदेशवप्रसङ्गात् । न च गगनवद् व्यापित्वाद् वर्त्तत इति ब्रूम इत्यकलङ्कन्यायानुसारि चेतोहरं वचः, अविचारितरमणीयत्वात्, कात्स्य-देशव्यतिरेकेण वृत्यदर्शनात् । उभयव्यतिरेकेण नभसो वृत्तिरिति चेत् । न, असिद्धत्वात् , नमसः सप्रदेशत्वाभ्युपगमात् , निष्प्रदेशत्वे चानेकदोषप्रसङ्गात् ; तथाहि- येन देशेन विन्ध्यन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288