Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 241
________________ स्वोपज्ञटीकासाहता। २४९ तथा रसज्ञानतया भावाभावे, अन्वयानभ्युपगमेनात्यन्तासत एव भवतः, अस्य रसज्ञानस्य, उपादानचिन्तया, परमार्थतः सर्वत्रासत् सद् भवतीति कृत्वा ? । तत्तथाभावे च तस्य रूपज्ञानस्य तथाभावे च रसज्ञानभावे चाभ्युपगम्यमाने सति । किमित्याह- अनिवारितोऽन्वयः बलादापद्यत इत्यर्थः । एतेनेत्यादि एतेनानन्तरोदितेन, सदा सत्त्वोपलम्भः प्रत्युक्तः । कथमित्याह-तत्त्वतः परमार्थतः, तस्यापि सदासत्त्वोपलम्भस्य, सादृश्यनिबन्धनत्वात् । यदि नामैवं ततः किमित्याह- तस्य च सादृश्यस्य, उक्तवद् यथोक्तम्- 'प्रतिनियतैकग्राहिज्ञानतत्त्ववादे' इत्यादि तथा, ग्रहणायोगात् ; आन्तरतद्विकल्पबीजस्य- असद्दर्शनवासनाख्यनित्यत्वादिविकल्पबीजस्य, अप्रमाणत्वात् , नैतग्राहकं प्रमाणमस्ति; तथापि प्रमाणाभावेऽपि, तत्कल्पनायाश्चान्तरताद्विकल्पबीजकल्पनायाश्च, इतरत्रापि प्रक्रगादनित्यत्वादौ, तुल्यत्वादित्युक्तप्रायं प्रायेणोक्तं 'आन्तरदोषसामर्थ्यात्' इत्यादिना ग्रन्थेन । ____ एवं प्रदीपप्रभोदाहरणं सर्वत्रगत्वादनुदाहरणमेव । न च दीपप्रभाया मण्यर्थेन प्रतिबन्धः, अस्ति च मणिप्रभायाः । न चैवमनित्ये-तरादिविकल्पानां केषांचिदेव वस्तुना प्रतिबन्धो नान्येषाम्, इति वैषम्यमपि दान्तिकेन । अयोनिशो मनस्कारपूर्वकत्वान्नित्यादिविकल्पानां न वैषम्यमिति चेत् । न, अस्यापि तुल्यत्वात् , अनित्यादिविकल्पानामप्येवंभूतभावस्य वक्तुं शक्यत्वात् , उभयत्र तनियामकत्वानुपपत्तेः, निबन्धनाविशेषादिति । अतः स्थितमेतत्- 'अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तसामोत्थं वचनमपि तागेव' इति दुःस्थिता तत्त्वनीतिः॥ पूर्वपक्षान्तरमधिकृत्याह- एवमित्यादि । एवमुक्तनीत्या, प्रदीपप्रभोदाहरणं परप्रणीतं, सर्वत्रगत्वात् कारणाद् विपक्षेऽप्युपनयकरणेन, किमित्याह- अनुदाहरणमेव । अभ्युच्चयमाह- न चेत्यादिना । न च दीपप्रभाया मण्यर्थेन सह प्रतिबन्धोऽस्ति, अस्ति च मणिप्रभाया इत्युभयसिद्धमेतत् । न चैवमनित्येतरादिविकल्पानामनित्य-नित्यादि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288