Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 235
________________ स्वोपज्ञटीकासहिता । २४३ विज्ञानजन्म सहकारिस्वभावं नीलं कदाचिद् रसादिविज्ञानजन्म सहकारितां प्रतिपद्यते । किं न प्रतिपद्यते ? इत्याह- तत्तत्वविरोधात् तस्य नीलस्य नीलविज्ञानजन्मसहकारिस्वभावत्वं तत्त्वं तद्विरोधादिति ॥ अनेनानेकशक्तिसहकार्येकस्वभावत्वकल्पना प्रत्युक्ता, अनेकगर्भस्य तस्यैकत्वायोगात्, अतिप्रसङ्गात्, निबन्धनव्यवस्थाभावात्, विश्वस्यैकनिबन्धनतापत्तेः । इति 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव ।। अनेनानेकशक्ति सहकार्येकस्वभावत्वकल्पना प्रत्युक्ता । कथमित्याहअनेकगर्भस्य तस्य अधिकृतस्वभावस्य एकत्वायोगात् । अनेकगर्भश्वानेकशक्तिसहकार्येकस्वभाव इति परिभावनीयम् । योगेऽप्यतिप्रसङ्गात् सर्वस्य सर्वसहकारिकल्पनया । ततश्च निबन्धनव्यवस्थाभावात् 'नेदमस्य कारणम्' इति । व्यवस्थाभावे च विश्वस्यैकनिबन्धनतापत्तेः, ‘अनेककार्यकरणैकस्वभावत्वादेकस्य' इत्यपि वक्तुं शक्यत्वात् । इति 'अनन्तरोदिता कल्पना प्रत्युक्ता' इति क्रियायोगः । इति एवं 'स्वलक्षणदर्शनाहितवासनाकृत विप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव, अभिप्रेतार्थशून्यत्वादिति गर्भः ॥ तत्प्रतिबद्धजन्मत्वासिद्धेश्व, तथाहि - कस्तेषां वस्तुना प्रतिबन्धः ? इति वाच्यम् । न तादात्म्यम्, तद्देशादिभेदात्, अनभ्युप्रगमाच्च । न तदुत्पत्तिः, तदसरूपत्वात्, तदनन्तराभावाच्च । पारम्पर्येण तत्तदुत्पत्तिरिति चेत् । न, विहितोत्तरत्वात्, तत्तद्भावेऽपि तन्निमित्तत्वाविशेषात् नित्यादिविकल्पेभ्योऽपि तन्निश्चितिसिद्धेः, वस्तुनस्तथात्वप्रसङ्गात्, अनेकान्तापत्तेरिति । न च न नित्यादिविकल्पानामपि तत्प्रतिबन्धः, तेषामपिः तद्भेदमसवाभ्युपगमात्, 'नान्येषाम्, तद्भेदप्रसवे सत्यपि' इत्याद्युपन्यासात् । तद्भेदप्रसवश्चार्थभेदादुत्पादः । स चानित्यादिविकल्पानामिवामीषां तत इति । तत्कथं न तेभ्यस्तन्निश्चितिः ? ॥ इहैवोपपत्त्यन्तरमाह- तत्प्रतिबद्धजन्मत्वासिद्धेश्च वस्तुप्रतिम Jain Education International , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288