Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 231
________________ स्वोपज्ञटीकासहिता। २३९ जन्यत्वे च तदयोगात्, सर्वेषां तज्जनकत्वात्, एकभाविनोऽपरभावासिद्धेः, तद्वैयर्थ्यप्रसङ्गात् , समग्रजनकत्वेऽप्येकस्यापि जनकत्वात् , अन्यथा समग्रजनकत्वविरोधात् , भेदशस्तद्भावापत्तेः, अन्यतज्जनकत्वे च कुतस्तत्स्वभाववैकल्यम् ? इति यत्किञ्चिदेतत् ॥ तेषामित्यादि । तेषां समग्रोत्पन्नानां समग्राणाम् ; किमित्याहअत एव हेतोः, प्रत्येकत्वाभावात् कारणात्, अप्रत्येकत्वत एवअप्रत्यकत्वेनैव समग्रतयेत्यर्थः, तत्स्वभावत्वात् तथाविधकार्यजननसमर्थस्वभावत्वादोष इति चेदनन्तरविकल्पयुगलकोपनीतः। एतदाशङ्कयाह- नानेकेत्यादिना । न नैतदेवम् । कुत इत्याह--अनेकतोऽनेकेभ्यः समग्रेभ्यः, सर्वथैकभवनासिद्धनिरंशभवनासिद्धरित्यर्थः । असिद्धिश्च तद्भिन्नखभावत्वात् तेषामनेकेषां भिन्नस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमेऽभिन्नस्वभावत्वादनेकत्वायोगात् । एवं चेत्यादि । एवं चानेकत्वे सति, इतरेतरस्वभाववैकल्येन- न य एवैकस्य स्वभावः स एवापरस्य, तदभेदप्रसङ्गादितीतरेतरस्वभाववैकल्यं तेन, तत्र सर्वथैकभवने, अनुपयोगाद् नानेकतः सर्वथैकभवनमिति । तत्स्वभावविकलस्तस्य विवक्षितस्य कस्यचित् तथाविधकार्यजननसमर्थस्य समग्रस्य खभावस्तत्स्वभावस्तेन विकलो रहितोऽपरः समग्र एव तत्स्वभावविकलः सः, तद्रूपोऽधिकृतसमग्रान्तररूपः, न स्याद् न भवेत् तद्वैकल्येन, नातत्कार्यों न समग्रान्तराकार्यः, किन्तु तत्कार्य एव, समग्रान्तरवत् , तस्यापि तजननस्वभावत्वादिति चेत् । एतदाशङ्कयाह- नेत्यादि । न नैतदे. वम् । कुत इत्याह- तत्स्वभावविकलस्य विवक्षितसमग्रतथाविधकार्यजननसमर्थस्वभावविकलस्य समयान्तरस्येति प्रक्रमः । किमित्याहतत्कार्यत्वविरोधात समग्रान्तरकार्यत्वविरोधात् । विरोधश्च तज्जननैकस्वभावादेव तथाविधकार्यजननैकस्वभावादेव, ततः प्रथमसममात्, तदुत्पत्तेस्तथाविधकार्योत्पत्तेः, अन्यतः समग्रान्तरात् , तद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288