Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 221
________________ २२९ स्वोपज्ञटीकासहिता। परहेतुना विशेषान्तरसमारोपाद् हेतोः, 'नान्येषां' इति वर्तते । निद. शनमाह-दीपप्रभायामिव विषयभूतायां मणिबुद्धेः कुञ्चिकादिविवरोपलम्भेनेव, इत्येवं संवादिभ्य एव विकल्पेभ्यस्तनिश्चितिरभिप्रेततत्त्वनिश्चिति संवादिभ्यः ।। एतदप्यसत, अविचारितरमणीयत्वात् । तत्र यत्तावदुक्तम्'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति । अत्र किमिदं स्वलक्षणदर्शनं नाम?, का वा तदाहिता वासना, यत्कृतविप्लवरूपाःसर्व एव विकल्पाः? इति । वस्त्वनुभवः स्वलक्षणदर्शनम् , तदाहितवासना तु तथाविधविकल्पजननशक्तिः। यद्येवम् , कथं निरंशवस्तुविषयाद् निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां सम्भवः ?, कथं वैकस्या एवानेकविकल्पजन्म ? । समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः, क्रमेणैकस्य, अक्रमेण चानेकपमातृणाम् । न चैते शक्तिभेदैकानेकजनकत्वे विना । न च भूयसामपि निरंशवस्तुविषयनिरंशानुभवानां तत्त्वतस्तत्वे विशेषः, रूपादिस्वलक्षणानामिव । तन्न तेषामिवैकस्य बहूनां वानन्तरं पारम्पर्येण वा तथाविधफलभेदोऽमीषां न्याय्य इति भाव्यमेतत् । का चेयं तथाविधविकल्पजननशक्तिः, किं तदुत्तरं मानसम्, उतान्यैव काचित् ? । यदि मानसम् , कथं स्वलक्षणादस्वलक्षणजन्म?| अस्वलक्षणं च विकल्पः, असदाकाररूपत्वात् । न स्वसंवित्तिस्तत्रास्वलक्षणम् , अपि तु बहिमुखावभास एवेति चेत् । न खलु सा ततोऽन्या, इति कथं नास्वलक्षणम् । असनसौ, सा तु सती, स्वसंविदितत्वादेवेति चेत् । कथमसौ तन्मात्रतत्त्वा विकल्प इति चिन्त्यम् । असदाकारानुवेधादिति चेत् । कथमसताऽनुवेधो नाम ? । स निर्विषयत्वादसन् , न तु तथाप्रतिभासेनेति चेत् । न स्वसंवित्तिस्तथाप्रतिभासनादन्या, इत्यस्वलक्षणत्वमेव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288