Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 222
________________ २३० तजयपताका एवं पूर्वपक्षमाशङ्कयाह- एतदप्यसत् अशोभनम् । कुत इत्याह अविचारितरमणीयत्वात् कारणात्। एतदेवाह- तत्रेत्यादिना । तत्र यत्तावदुक्तमादौ 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः ' इति-एतत् । अत्र किमिदं स्वलक्षणदर्शनं नाम ?। का वा तदाहिता दलक्षणदर्शनाहिता वासना, यत्कृतविप्लवरूपाः सर्व एव विकल्पा इति ? । अत्राह-वस्त्वनुभव: शुद्धः स्वलक्षणदर्शनम् , तदाहिता वासना तु तथाविधविकल्पजननशक्तिः, तथाविधस्य संवादिनोऽसंवा दिनश्च । एतदाशङ्कयाह-यद्येवम् , कथं निरंशवस्तुविषयाद् निरंशाशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां संभवा सामान्येन ? । कथं वैकस्या एव शक्तेरनेकविकल्पजन्म ? । को वा किमाह ? न चैतदेवम् , इत्याशङ्कानिरासायाह- समुत्पद्यन्ते च स्क लक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः क्रमेणैकस्य प्रमा तुः सांख्यादेबौद्धादिमतप्रतिपत्त्या, अक्रमेण चानेकप्रमातृणां सांख्य बौद्धादीनां नित्यानित्यादिविकल्पाः । शक्तिभेदश्चैकानेकजनक चेति विग्रहः, ते चैते, एते विना, क्रमाक्रमपक्षद्वयेऽपीति । एतदेवाह न चेत्यादि । न च भूयसामपि क्रमपक्ष । केषामित्याह- निरंश वस्तुविषयनिरंशानुभवानां तुल्यस्वलक्षणानुभवानामित्यर्थः । किमि त्याह- तत्त्वतः परमार्थेन, तत्त्वे तद्भावे रूपादिस्वलक्षणानुभवत इत्यर्थः, विशेषो भेदः । किं तर्हि ? सर्व एवैते रूपादिस्वलक्षणानुभव एवेति । इहैव निदर्शनमाह- रूपादिस्वलक्षणानामिव 'एकस्य मातुः' इति प्रक्रमः, तथाविधानुभवनिबन्धनानामिति; तथाहि क्रमेणापि रूपादिस्वलक्षणानि स्वाकारमनुभवं कुर्वाणानि न रूपा दिस्वलक्षणत्वेन विशिष्यन्त इति । प्रकृतयोजनामाह- तत् तस्मा न तेषामिव रूपादिस्वलक्षणानामिव 'एकस्य प्रमातुः' इति प्रक्रमः, बहन वा प्रमातृणामनन्तरं बहूनां पारम्पर्येण वैकस्य तथाविधफलभेदो । अजातीयविज्ञानादिकार्यभेदोऽमीषां निरंशवस्तुविषयनिरंशानुभवा न्याय्य इति भाव्यमेतद् भावनीयमेतत् । एतदुक्तं भवति- यथा से। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288