Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 223
________________ खोपज्ञटीकासहिता। २३१ रूपादिस्वलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्या-ऽनात्मकक्षस्त्वनुभवानामपि न नित्या-ऽऽत्मादिविकल्पजननशक्तयाख्यः फलभेदो न्याय्यः । इहैवाभ्युच्चयमाह-का चेयमित्यादिना। का चेयं तथावि. धविकल्पजननशक्तिर्भवतोऽभिप्रेता ? । किं तदुत्तरं प्रक्रमादविकल्पप्रत्यक्षोत्तरं मानसं स्वविषयानन्तरेत्यादिलक्षणम् , उतान्यैव काचिदालयगता? । उभयथापि दोषमाह- यदि मानसम् , कथं स्वलक्षणाद् मानसादस्वलक्षणजन्म विकल्पोत्पादः ?। विकल्पास्वलक्षणत्वमाहअस्वलक्षणं च विकल्पो भवन्नीत्या । कुत इत्याह- असदाकाररूपत्वात्- असदाकारो' विकल्पबुद्धिप्रतिभासोऽस्वलक्षणत्वाभ्युपगमात् स एव रूपं यस्य स तथा तद्भावस्तस्मात् । न स्वसंवित्तिस्तत्र विकल्पेऽस्खलक्षणम् , अपि तु बहिर्मुखावभास एवास्वलक्षणमिति चेत् । एतदाशझ्याह- न खलु सा स्वसंवित्तिस्ततो बहिर्मुखावभासादन्या, इत्येवं कथं नास्वलक्षणम् ?-अस्वलक्षणमेव । असनसौ बहिर्मुखावभासः, सा तु स्वसंवित्तिः सती विद्यमाना, स्वसंविदितत्वादेव कारणादिति चेत्। एतदाशङ्कयाह- कथमसौ स्वसंवित्तिस्तन्मात्रतत्त्वा स्वसंवित्तिमातद्भावा विकल्प इति चिन्त्यम्, न तत्र स्खलक्षणातिरिक्तोऽश इति कृत्वा । असदाकारानुवेधादसौ विकल्प इति चेत् । एतदाशङ्कयाहकथमसता आकारेणानुवेधो नाम स्वसंविदः ?-नैवेत्यर्थः। स आकारो निर्विषयत्वात् कारणादसंस्तुच्छः, न तु तथाप्रतिभासनेन न पुनर्बहिमुंखावभासप्रतिभासनेनासन्निति चेत् । एतदाशङ्कयाह-न स्वसंवित्तिरधिकृता तथाप्रतिभासनाद् बहिर्मुखावभासप्रतिभासनादन्याऽर्थान्तरभूतेति कृत्वाऽस्खलक्षणत्वमेव स्वसंविदः ।। तस्य विभ्रमरूपत्वात् तदन्या-ऽनन्यत्वकल्पनैवायुक्तति चेत् । कोऽयं विभ्रम इति कथनीयम् । अनिरूप्यस्वरूपस्तत्त्वतोऽसद्रूप इति चेत् । कथमयं स्वसंवित्तिभेदक इति वाच्यम् । न तत्त्वत इति चेत् । उत्सनो विकल्पः। अस्त्विति चेत् । प्रतीत्यादिबाधा । चेतनव तथाभूता विकल्प इति चेत् । किंभूतेति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288