Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 207
________________ स्वोपज्ञटीकासहिता। २१५ व्यवस्थाऽयोगात् , अयोगश्च भावतः परमार्थेन, तेनैव निर्विकल्पकप्रत्यक्षेण, तदनधिगतेः प्रत्यक्षाऽऽकारस्याऽनधिगतेः, अनधिगतिश्च तथा स्वाऽऽकारग्रहणतया अनुभवाऽभावात् , एवमपि अनुभवाऽभावेऽपि, तत्कल्पने तेनैव तदधिगतिकल्पने, अतिप्रसङ्गापत्तेः प्रतिभासान्तरकल्पनया इति भावः । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- नियामकाऽभावाद् इति अतः स्थितमेतद् अयुक्तमिति । न चेत्यादि । न च द्राग्दर्शनात् शीघ्रदर्शनात् , तनिश्चयः प्रक्रमाद् असाधारणवस्तुनिश्चयः, अपि तु सदादिमात्रस्य निश्चयः, अतः अस्मात् कारणात् , प्रथमाऽक्षसन्निपाते अवग्रहणकाले, तदेव सामान्यं प्रतिभासते, इति एतद् युक्तम् । उपपत्त्यन्तरमाह- सितेतरादिष्वपि क्षिप्रादिदर्शने आदिशब्दाद् मन्ददर्शनग्रहः, तावन्मात्रनिश्चयात् सदादिमात्रनिश्चयात् , न च तत्र क्षिप्रादिदर्शने, तदग्रहणमेव सदादिमात्राऽग्रहणमेव । कुत इत्याह- तथा सदादिमात्रनिश्चयत्वेन अनुभवविरोधात् , न च अन्यथाग्रहणे सितेतरादित्वेन ग्रहणे इत्यर्थः, अन्यथा सदादिमात्रत्वेन निश्चयोत्पादः । कुत इत्याह- प्रमाणाऽभावात् न च सन् अपि अयं अन्यथाग्रहणे अन्यथानिश्चयोत्पादो न्याय्यः । कुत इत्याह- असमञ्जसत्वापत्तेः सितेतरादिव्यवस्थाऽभावेन, न च वैभ्रमिक एव अयं प्रक्रमाद् द्रागदर्शनेन निश्चयः सदादिमात्रस्य । कुत इत्याह- तद्भावभावित्वोपलब्धेः सदादिमात्रभावभावित्वोपलब्धेः, अवग्रहाद् अपि अनिर्देश्यसदादिमात्रगोचराद्, अयं सदादिनिश्चयः, न शब्दाऽरूषितत्वेन युक्त इति चेत् । एतदाशङ्कथाह- सत्यम् , एव मेतत् , अदोस्तु तन्मात्राद् अवग्रहमात्राद् अनिर्देश्यसदादिमात्रगोचरात् , अनयुपगमात् सदादिमात्रनिश्चयस्य, एवमपि दृष्टबाधा इति चेत्- तदवन्तरमेव भावाद् अधिकृतनिश्चयस्य इत्यऽभिप्रायः । एतदाशङ्कथाहर अन्तरालाऽवायत एव गेयत्वाद्यपेक्षया सदऽ-सदीहोत्तरकालभावनः सकाशात् , तद्भावात् सदादिमात्रनिश्चयभावात्- शब्दाऽरूषिजोधाऽनन्तरभावी एव अयं निश्चय इत्यर्थः । कथमेतद् अनन्तरो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288