Book Title: Anekantajaypataka Swopagnya Tika
Author(s): Haribhadrasuri, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 214
________________ २२२ अनेकान्तजयपताका कश्चित् , एतन्निमित्तम्-एतस्या एकत्वबुद्धेः आलम्बनम् , स स इति स घटः, तेभ्यो रूपादिभ्योऽन्य इति चेत् । एतदाशङ्कयाह- संख्यायाः एकसंख्यायाः, एकत्वबुद्धिनिमित्तत्वेन तद्भावप्रसङ्गः घटभाव. प्रसङ्गः, न सा संख्या, तदनाश्रिता घटाऽनाश्रिता इति चेत् । एतदाशकथाह- एवमपि तदाश्रितत्वेऽपि, तत्त्वतः परमार्थेन, अन्या एव सन्मूदुपाऽऽकारेभ्य इति, यदि नामैवं ततः किमिति चेत् । एतदाशङ्कयाहतनिमित्ता सदादिभिन्नसंख्यानिमित्ता एकत्वबुद्धिः, सा संख्या, तद्विशेषणभूता प्रस्तुता एकाऽवयविविशेषणभूता इति चेत् । एतदाशङ्कयाह- कथमेतद् विनिश्चीयते यदुत सा तद्विशेषगभूता इति ?, एकोऽयमिति व्यवसायाद् इति, चेद् विनिश्चीयते इति । एतदाशङ्कयाहनाऽसौ व्यवसाय:, सदादिभिन्नप्रतिभासी इति । कुत इत्याह- तथा सदादिभिन्न प्रतिभासित्वेन अननुभवात् , एवमपि तथा अननुभवेऽपि, तत्कल्पने सदादिभिन्नाऽवयविकल्पने अतिप्रसङ्गात् , अतिप्रसङ्गश्च त. दन्तरापत्तेः तत्रैव अवयवि-अन्तरापत्तेः, आपत्तिश्च निराकरणाऽयोगात् तदन्तरस्य, अयोगश्च अननुभवाऽविशेषाद् द्वयोरपि इति, इत्येवं तदेकत्वपरिणामनिबन्धन एव अयं प्रक्रमात् सन्मृद्रव्याऽऽकारैकत्वपरिणामनिबन्धन एव अयम् , एकोऽयमिति व्यवसायः । तेषामेव सदादीनामेकाऽनेकात्मकत्वात् , एतच्च भेदाभेदभावात् , अयं च तथास्वभावत्वात् , तथास्वभावत्वे च विरोधाऽनुपपत्तेः, अनुपपत्तिश्च प्रतीतिसिद्धत्वात् । नहि प्रतीतिरेक सिद्धौ निमित्तमित्याशङ्काऽपोहाय आह-बाधाभावादिति तदेकत्वपरिणामनिबन्धन एव अयम् , इति एवम् , सद्व्याद्यनेकस्वभावे वस्तुनि । किमित्याह- वस्तुमात्रग्राहि एव अवग्रहकल्पमविकल्पकमङ्गीकर्तव्यम् । किमित्याह- अन्यथा उक्तदोषाऽनतिवृत्तिः उक्तदोषाः " न्यायाऽनुभवविरोधाद्" इत्येव मादयः तदऽनिवृत्तिः, एवंभूते च अस्मिन् अविकल्पके । किमित्याहआवयोः तव मम च, अविवाद एव । कुत इत्याह- एवंविधा ऽवग्रहस्य अविकल्पकस्य, अस्माभिः अभ्युपगतत्वात् , न चा ALLSCAPER Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288