Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७२
स्थानाङ्ग सूत्रम् ८/-/७३९
चूलावस्तूनि त्वाचाराग्रवदिति ।। वस्तुवीयदिव गतयोऽपि भवन्तीति ता दर्शयन्नाहमू. (७४०) अट्ठ गतितो पं० तं० - निरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पब्भारगती ।
वृ. 'अट्ठ गईओ' इत्यादि, सुगमं, नवरं 'गुरुगइ' त्ति भावप्रधानत्वान्निर्देशस्य गोरवेणऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गुरुगतिरिति, यातु परप्रेरणात् सा प्रणोदनगतिर्बाणादीनामिव, या तु द्रव्यान्तराक्रान्तस्य सा प्राग्भारगतिर्यथा नावादेरधोगतिरिति मू. ( ७४१) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविवखंभेणं पं० वृ. अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह - 'गंगे' त्यादि कण्ठ्यं, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्त्तिनः मू. (७४२) उक्कामुहमेहुमुहविज्जुमुहविज्जुदंतदीवाणं दीवा अट्ट २ जोयणसयाइं आयामविक्खमंभेणं पं० कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते ।
वृ. द्वीपाधिकारादन्तरद्वीपसूत्रं, तत एव द्वीपवतः ।
मू. (७४३) कालोते णं समुद्दे अट् जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते । वृ. कालोदसमुद्रस्य प्रमाणसूत्रं० ।
मू. (७४४) अब्यंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरध्धेवि ।
वृ. तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दंष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः ।
मू. (७४५) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्टकण्णिते अधिकरणिसंठिते पं० ।
वृ. पुष्करार्द्धे च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽतारं कुर्वन्नाह'एगमेगे' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिन इत्यत्रान्यान्यकालोत्पन्नानामपितुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहणमिति, अष्टसौवर्णिकं काकणिरलं, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षवा एकं धान्यमाषकफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जाः एकः कर्ममाषकः षोडश कर्म्ममाषकाः एकः सुवर्णः,
- एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशास्त्रिअष्टकर्णिकं अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानिमध्यखण्डानि अश्रयः कोट्यः कर्णिकाः - कोणविभागाः अधिकरणिकं सुवर्णकारोपकरणं प्रतीतमेवेति इदञ्च चतुरङ्गुलप्रमाणं 'चउरंगुलप्पमाणा सुवन्नवरकागणी नेय'त्ति वचनादिति । मू. (७४६) मागधस्स णं जोयणस्स अट्ठ धणुसहस्साइं निधत्ते पं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bb4d073a1efb3eccc174760fe77d6259ee3c9e343815f24072a8b8d864521e4a.jpg)
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596