SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४७२ स्थानाङ्ग सूत्रम् ८/-/७३९ चूलावस्तूनि त्वाचाराग्रवदिति ।। वस्तुवीयदिव गतयोऽपि भवन्तीति ता दर्शयन्नाहमू. (७४०) अट्ठ गतितो पं० तं० - निरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पब्भारगती । वृ. 'अट्ठ गईओ' इत्यादि, सुगमं, नवरं 'गुरुगइ' त्ति भावप्रधानत्वान्निर्देशस्य गोरवेणऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतो गतिः सा गुरुगतिरिति, यातु परप्रेरणात् सा प्रणोदनगतिर्बाणादीनामिव, या तु द्रव्यान्तराक्रान्तस्य सा प्राग्भारगतिर्यथा नावादेरधोगतिरिति मू. ( ७४१) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविवखंभेणं पं० वृ. अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह - 'गंगे' त्यादि कण्ठ्यं, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्त्तिनः मू. (७४२) उक्कामुहमेहुमुहविज्जुमुहविज्जुदंतदीवाणं दीवा अट्ट २ जोयणसयाइं आयामविक्खमंभेणं पं० कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते । वृ. द्वीपाधिकारादन्तरद्वीपसूत्रं, तत एव द्वीपवतः । मू. (७४३) कालोते णं समुद्दे अट् जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते । वृ. कालोदसमुद्रस्य प्रमाणसूत्रं० । मू. (७४४) अब्यंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरध्धेवि । वृ. तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दंष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः । मू. (७४५) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्टकण्णिते अधिकरणिसंठिते पं० । वृ. पुष्करार्द्धे च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽतारं कुर्वन्नाह'एगमेगे' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिन इत्यत्रान्यान्यकालोत्पन्नानामपितुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहणमिति, अष्टसौवर्णिकं काकणिरलं, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षवा एकं धान्यमाषकफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जाः एकः कर्ममाषकः षोडश कर्म्ममाषकाः एकः सुवर्णः, - एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशास्त्रिअष्टकर्णिकं अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानिमध्यखण्डानि अश्रयः कोट्यः कर्णिकाः - कोणविभागाः अधिकरणिकं सुवर्णकारोपकरणं प्रतीतमेवेति इदञ्च चतुरङ्गुलप्रमाणं 'चउरंगुलप्पमाणा सुवन्नवरकागणी नेय'त्ति वचनादिति । मू. (७४६) मागधस्स णं जोयणस्स अट्ठ धणुसहस्साइं निधत्ते पं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy