SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ स्थानं-८, ४७३ वृ. अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह-'मागहे'त्यादि, मगधेषु भवं मागधंमगधदेशव्यवहतं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसहाम्राणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्ते'त्ति क्वचित्पाठः तत्र निधत्तं-निकाचितं निश्चितंप्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, तथाहि॥१॥ “परमाणू तसरेणु रहरेणू अग्गयं च वालस्स। लिक्खा जया य जवो अट्ठगुणविवद्धिया कमसो॥" तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेण्वादि भेदा अनुयोगद्वाराभिहिता अनेनैव सगृहीता :श्याः, तथा पौरस्त्यादिवायुप्रेरितस्यति-गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वेसहे धनुषांगव्यूतं, चत्वारिगव्यूतानियोजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादितिप्रतिपादितं, तत्र यस्मिन् देशेषोडशभिर्धनुःशतैगव्यूतं स्यात्तत्रषड्भिः सहैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति। योजनप्रमाणमभिधायाष्टयोजनतो जम्ब्वादीनांप्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह मू. (७४७) जंबूणंसुदंसणा अट्ठजोयणाइंउद्धं उच्चत्तेणंबहुमज्झदेसभाए अट्ठजोयणाई विक्खंभेणं सातिरेगाइं अट्ठजोयणाइंसव्वग्गेणं पं० १, कूडसामली णं अट्ठजोयणाइएवं चेव २ वृ. 'जंबूण'मित्यादि, जम्बूः-वृक्षविशेषस्तदाकारा सर्वरलमयी या सा जम्बूः, ययाअयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेतितस्या नाम, साचोत्तरकुरूणां पूर्वार्द्धशीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्भवरवेदिकापरिक्षिप्तस्य द्विगव्यूतोच्छ्रितसच्चत्रतोरणचतुर्दारस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामएयोजनायामविष्कम्भायांमणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, अट्ठजोयणाइ'मित्यादि अष्ट योजनान्यर्बोच्चत्वेन बहुमध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युद्वेधगव्यतिद्वयेनाधिकानीतिभावः सर्वाग्रेण-सर्वापरिमाणेनेति, तस्याश्च चतः पूर्वादिदिक्षु शाखाः, तत्र पूर्वशाखायां॥१॥ "भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स । तिसु पासाया सालेसुतेसु सीहासणा रम्मा । ॥२॥ तेपासाया कोसंसमूसिया कोसमद्धविच्छिन्ना । विडिमोवरि जिनभवणं कोसद्ध होइ विच्छिन्नं ।। ॥३॥ देसूनकोसमुच्चं जंबू अट्ठस्सएण जंबूणं। परिवारिया विरायइ तत्तो अद्धप्पमाणाहिं ॥" -तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता“जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वनसंडं । चउरो दिसासु भवणा विदिसासु य होति पासाया ।। ॥२॥ कोसपमाणा भवणा चउवावीपरिगया य पासाया। कोसद्धवित्थरा कोसमूसियाऽनाढियसुरस्स ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy