________________
४७१
स्थानं - ८,वर्तमानजलमिवानलरतमुद्वर्तनपरिवर्तनपरास्तत्स्वभावाद्ये ते अमध्यप्रदेशा इति।।
जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्यनावतारिणी तीर्थङ्करवक्तव्यता सूत्रद्वयेनाह
मू. (७३७) अरहंता णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अनगारितं पव्वावेस्सति, तं०-पउमं पउमगुम्मनलिणं नलिनगुम्मं पउमद्धत धणुद्धतं कणगरहं भरहं १
वृ. 'अरहाण'मित्यादि सुगम, नवरं 'महापउमे'तिमहापभो भविष्यदुत्सर्पिण्यांप्रथमतीर्थकरः श्रेणिकराजजीव इतिइहैवनवस्थानके वक्ष्यमाणव्यतिकर इति, “मुंडा भवित्त'त्तिमुण्डान् भावयित्वेति।
मू. (७३८) कण्हस्सणं वासुदेवस्स अट्ठअग्गमहिसीओ अरहतोणंअरिट्टनेमिस्स अंतिते मुंडाभवेत्ता अगारातो अनगारितंपव्वतिता सिद्धाओजाव सव्वदुक्खप्पहीणाओ, तं०-पउमावती गोरी गंधारी लक्खणा सुसीमा जंबवती सच्चभामा रूप्पिणी कण्हअग्गमहिसीओ २ ।
वृ. कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, साचेयं-किल द्वारकावत्यांकृष्णो वासुदेवो बभूव, पद्भावत्यादिकास्तस्य भार्या अभूवन्, अरिष्टनेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्भावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासासिरे, भगवांस्तुतेषां धर्ममाचख्यौ, ततः कृष्णो वन्दित्वाऽभ्यधात्- अस्या भदन्त ! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिर्मि- तायाः प्रत्यक्षदेवलोकभूतायाः किंमूलको विनाशो भविष्यति ?, भगवान् त्रिभुवनगुरुर्जगाद-सुराग्निद्वीपायनमुनिमूलको विनाशो भविष्यतीति निशम्य मधुमथनो मनस्येवं विभावितवान्-धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूर्छितो न शक्नोमि प्रव्रजितुमिति, ततस्तमर्हन्नवादीद-भोः ! कृष्ण न भवत्ययमर्थो यद्वासुदेवाः प्रव्रजन्ति, कृतनिदानत्वात्तेषां, अथाहं भदन्त ! क्वोत्पत्स्ये?,
भुवनविभुराह-दग्धायां पुरि पाण्डुमथुरांप्रति चलितः कौशाम्बकानेन न्यग्रोधस्याधः सुप्तो जराकुमाराभिधानभात्रा काण्डेन पादे विद्धः कालं कृत्वा वालुकप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीनमनोवृत्तिरभवत्, ततोजगद्गुरुगादीत्-मा दैन्यं व्रज यतस्ततस्त्वमुद्धृत्याऽऽगामिन्यामुत्सपिण्यांभारते वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वाजहर्षसिंहनादादि च चकार,
ततोजनाईनो नगरी गत्वा घोषणां कारयाञ्चकार यदुतार्हता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्भावतीप्रभृतिका देव्योऽवादिषुः-वयंयुष्माभिरनुज्ञाताः प्रव्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु ताः प्रव्राजितवान्, ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति।
मू. (७३९) वीरितपुवस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थू पं० ।
वृ. एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाह-वीरियपुव्वे'त्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org