SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४७० __स्थानाङ्ग सूत्रम् ८/-/७३४ उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो तंसाओ, सव्वाओऽवि णं अब्भंतरकण्हरातीतो चउरंसाओ 9 एतासि णं अट्टहं कण्हरातीणं अट्ठ नामधेजा पं० तं०- कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खोभेति वा देवपलिहे वा देवपलिक्खोभति वा २ एतासि णं अट्ठण्हं कण्हरातीणं अट्ठसु उवासंतरेसु अट्ठ लोगंतितविमाणा पं० तं०-अच्ची अच्चिमाली वतिरोअणे पभंकरे चंदाभे सूराभे सुपइट्टाभे अग्गिच्चाभे ३ एतेसु णं असु लोगंतितविमाणे अडविधा लोगंतिता देवा पं० (तं०) वृ. ‘उप्पिं' इत्यादि सुगमं, नवरं ' उप्पिं' ति उपरि 'हेट्ठि' ति अधस्तातब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येति भावः, आखाटकवत्समं तुल्यं सर्वासु दिक्षु चतुरस्रं चतुष्कोणं यत्संस्थानंआकारस्तेन संस्थिताः आखाटकसमचतुरम्नसंस्थानसंस्थिताः कृष्णराजयः - कालकपुद्गलपङ्कतस्तद्युक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्था दर्श्यते- 'पुरच्छिमे णं ति पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां 'स्पृष्टा' सृष्टवती, एवं सर्वा अपि वाच्याः, तथा पौरस्तत्यापाश्चात्ये द्वे बाह्ये कृष्णराजी षडे षट्कोटिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्य त्र्ये सर्वाश्चतोनोऽपीत्यर्थोऽभ्यन्तराश्चतुरास्रः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपङ्क्तितरूपत्वाद् इतिरुपप्रदर्शने वा विकल्पे मेधराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात् तथा मघा-षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माघवती-सप्तमपृथिवी तद्वद्या सा माघवतीति वातपरिघादीनि तु तमस्कायसूत्रवद्व्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्वकाशान्तरेषु-राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञत्यामुच्यन्ते - अभ्यन्तरपूर्वाया उअग्रे अर्च्चिर्विमानं मू. (७३५) सारसतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोद्धव्वा ॥ वृ. तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अर्चिर्मालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचनेविमाने वह्ययः, दक्षिणयोर्मध्ये शुभङ्करे विमाने वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गर्द्दतोयाः, अपरयोर्मध्ये सूराभे तुषिताः, अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति । मू. (७३६) एतेसि णं अट्ठण्हं लोगंतितदेवाणं अजहन्नमनुक्कोसेणं अट्ठ सागरोवमाई ठिती पन्नत्ता ५ अट्ठ धम्मत्थिगातमज्झपतेसा पं० अट्ठ अधम्मत्थिगात० एवं चेव अट्ठ गासत्थिगा० एवं चेव अट्ठ जीवमज्झपएसा पं० । वृ. 'अजहन्नुकोसेणं' ति जधन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जधन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो ह्यूर्द्धलोकस्य मध्यभागवृत्तय इति धर्म्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्या विष्करणाय सूत्रचतुष्टयं 'अट्ठ धम्मे' त्यादि, स्फुटं, नवरं धर्म्माधर्माकाशानां मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशाः, शेषास्त्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy