Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 506
________________ ५०३ स्थानं -९,स तथ, ‘अचंतविसुद्धदीहरायकुलवंसप्पसूए' अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च-पुरुषपरम्परापेक्षयायो राज्ञां-भूपालानां कुललक्षणोवंशः-सन्तानस्तत्र प्रसूतो-जातोयः सतथा 'निरन्तरं रायलक्खणविराइयंगुवंगे' नैरन्तर्येण राजलक्षणैः-चक्रस्वस्तिकादिभिर्विरजितन्यङ्गानिशिरःप्रभृतीन्युपाङ्गानिच-अङ्गुल्यादीनि यस्य सतथा, बहुजणबहुमाणपूइएसव्वगुणसमिद्धे खत्तिए मुदिए'त्तिप्रतीतं 'मुद्धाभिसित्ते' पितृपितामहादिभिर्मूईन्यभिषिक्तो यः स तथा, ‘माउपिउसुजाए' सुपुत्रो विनीतत्वादिनेत्यर्थः, 'दयप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमङ्करे-मर्यादाकारी ‘सीमन्धरे' मर्यादां पूर्वपुरुषकृतां धारयति-नात्मनापि लोपयति यः स तथा खेमंकरो-नोपद्रवकारी खेमधरेक्षेमंधारयत्यन्तकृतमिति यः सथा, 'माणुस्सिदे जणवयपिया' लोकपिता वत्सलत्वात्, ‘जणवयपुरोहि' जनपदस्य पुरोधाः-पुरोहितःसान्तिकारीत्यर्थः, 'सेतुकरे' सेतुं-मार्गमा पद्गतानां निस्तरणोपायं करोति यः सतथ, 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, ‘नरपवरे' नरैः प्रवरः नरा वा प्रवरा यस्य स तथा, 'पुरिसवरे' पुरुषप्रधानः 'पुरिससीहे' शौर्यद्यदिकतया, 'पुरिसआसीविसे' शापसमर्थत्वात् 'पुरिसपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'पुरिसवरगंधहत्थी' शेषराजगजविजयित्वात्, ‘अड्डे' धनेश्वरत्वात् 'दित्तो' दर्पकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने' पूर्ववत् ‘बहुधणबहुजायरूवरयए आओगपओ गसंपउत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः-प्रवर्तितायेन सतथा, 'विच्छड्डियपुरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारे यन्त्राणि-जलयन्त्रादीनि कोशः-श्रीगृहं कोष्ठागारं धान्यागारं आयुधागारं-प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चमित्ते' अबलप्रातिवेशिकराजः, 'ओहयकंटयं निहयकंटयंमलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तुं' उपहता राज्यापहारानिहता मारणान्मलितामानभअनादुध्धृतादेशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टकं, एवं शत्रवोऽपि, नवरंशत्रवस्तेभ्योऽन्ये, पराईयसत्तुं विजयवत्त्वादिति, ववगयदुभिक्खंमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसन्नडिंबडमरं' डिम्बानि-विघ्ना डमराणि-कुमारादिव्युत्थानादीनि, ‘रज्जं पसासेमाणे'त्ति पालयन् ‘विहरिस्सइ'त्ति । 'दो देवा महद्धिया' इत्यत्र यावत्करणात् ‘महज्झुइया महानुभागामहायसा महावले ति दृश्य, सेनाकम्मति सेनायाः-सेन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च-उत्तरयक्षणिकायेन्द्रः, 'बहवे राईसरे’त्यादि, राजा-महामाण्डलिकः स्वरो-युवराजो माण्डलिकोऽमात्यो वा, अन्ये चव्याचक्षते-अनिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुटनरपतिप्रदत्तपट्टबन्धभूषितो माडम्बिकः-छिन्नमडम्बाधिपः, कौटुम्बिकः-कतिपयकुटुम्बप्रभुरिभ्यः-अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठीश्रीदेवताध्यासितसवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्टो वणिक्, सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596