Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 573
________________ ५७० स्थानाङ्ग सूत्रम् १०/-/१००० दीर्घत्वं प्राकृतत्वात् सहापरेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस इति भासं कुज्ज' त्ति प्रसिद्धमित्येकं, शेषाणि नवापि सुगमानि, नवरं 'से य अच्चासाइय'त्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ 'ते दुहओ' त्ति तौ द्वौ मुनिदेव 'पडिन्न'त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ-कृतप्रतिज्ञौ हन्तव्यो ऽयमित्यभ्युपगतावितियावदिति तृतीयं चतुर्थे श्रमणस्तेजोनिसर्गं कुर्यात्, पञ्चमे देवः षष्ठे उभाविति, केवलमयं विशेषः 'तत्रे 'ति उपसर्गकारिणि 'स्फोटाः' स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते-स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणं सह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् भस्म कुर्युः निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुलाः-पुलाकिका लघुतरस्फोटिकाः सम्मूर्च्छिन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं तत्र 'उच्चासाएमाणे ' त्ति उपसर्गं कुर्वन् गोशालकवत्तेजोनिसृजेत्, 'से य तत्थ'त्ति तच्च तेजस्तत्र-श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत् नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः . केवलं 'अंचिअंचियं 'ति उत्पतनिपतां पार्श्वतः करोति, ततश्चादक्षिणतः पार्थ्यात् प्रदक्षिणापार्श्वभ्रमणमादक्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्धम् उपरि दिशि 'वेहासं' ति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च, 'सेत्ति तत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते प्रतिनिवृत्त्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतं तमनुदहन्- निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं ? - सह तेजसा वर्त्तमानं तेजोलब्धिमत् भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह 'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्खपुत्रस्य, मङ्खश्चचित्रफलकप्रधानो भिक्षुकविशेषः, 'तवेतेए' त्ति तपोजनितत्वात्तपः किं तत् ? -तेजोस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्-यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ - महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच-यथा अयं शरणवग्रामे गोबहुलब्राह्मणगोशालायां जातो मङ्खलिनाम्नो मङ्खस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षड् वर्षाणि यावच्छद्भस्थेन मया सार्द्धं विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो न च सर्वज्ञः, इदं च भगवद्वचनमश्रुत्य बहुजनो नगर्याः त्रिकचतुष्कादिषु परस्परस्य कथयामास - गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत्, तमवादीच्च भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽर्भार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवी प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाड्वलवृक्षस्यान्तरद्राक्षुः, क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिवि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596