Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 577
________________ ५७४ स्थानाङ्ग सूत्रम् १०/-/१००६ वृ. द्वीपसमुद्राधिकारात् तद्वतिनक्षत्रसूत्रत्रयमाह-'कत्तिए'त्यादि, इह किल सूर्यस्य चतुरशीत्यधिकंमण्डलशतं भवति चन्द्रस्य पञ्चदश नक्षत्राणांत्वष्टौ, मण्डलंच मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भ, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणांद्वे, तथालवणसमुद्रंत्रीणि त्रिंशदधिकानियोजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, ___ चन्द्रस्य दश, नक्षत्राणां च षट्, एतेषां च सर्वबाह्यं सुमेरोः पञ्चचत्वारिंशति योजनानां सहेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहेषु अष्टासु च विंशत्यधिकेषुशतेषु भवतीति, एवं च कृत्तिकानक्षत्रंसर्वबाह्यात् 'मण्डलाउत्तिचन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात्षष्ठइत्यर्थः 'चारंचरइत्ति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्यात्षष्ठ इत्यर्थः चारं चरतीति व्याख्यातमेवेति । मू. (१००७) दस नक्खत्ता नाणस्स विद्धिकरा पण्णत्ता, तं० वृ. 'विद्धिकराईतिएतन्नक्षत्रयुक्ते चन्द्रमसि सति ज्ञानस्य-श्रुतानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अविघ्नेनाधीयते श्रूयते व्याख्यातते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात्तस्य, यदाह॥१॥ “उदयक्खयखओवसमोवसमा जंच कम्मुणो भणिया। दव्वं खेत्तं कालं भवेच भावंच संपप्प ॥” इति, मू. (१००८) मिगसिरमद्दा पुस्सो तिनि य पुव्वाई मूलमस्सेसा। हत्थो चित्ता यतहा दस वुद्धिकराइंनाणस्य॥ वृ. तद्यथा 'मिगसिर'गाहा कण्ठ्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह मू. (१००९) चउप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता। वृ. 'चउप्पये'त्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति, चतुष्पदस्थलचरास्ते चतेपञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेतिकर्मधारयः, तेषां 'दशे'ति दशैव, ‘जातौ' पञ्चेन्द्रियजातौ यानि कुलकोटीनां-जातिविशेषलक्षणानां [शतानां] योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि द्वीन्द्रियाणांकृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा-वक्षसा परिसर्पन्ति-सञ्चरन्तीत्युरः परिसप्पास्ते च ते स्थलचराश्चेत्यादि तथैव ॥ जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह मू. (१०१०)जीवाणंदसठाणनिव्वत्तिता पोग्गले पावकम्मत्ताए चिणिंसुवा ३, तंजहापढेमसमयएगिंदियनिव्वत्तिए जाव फासिंदियनिव्वत्तिते, ‘एवंचिण उवचिणबंध उदीर वेय तह निजरा चेव'। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596