Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 576
________________ स्थानं - १०, ५७३ वर्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्यविरचितघोररूपोलक्षयोजनमानशरीरः परिघरत्नंप्रहरणंपरितो भ्रमयनं गर्जन्नास्फोटयन्देवांस्त्रासयन्नुत्पपात, सौधर्मावतंसकविमानवेदिकायांपादन्यासंकृत्वाशक्रमाक्रोशयामास, शक्रोऽपिकोपाजाज्वल्यमानस्फारस्फुरतम्स्फुलिङ्गशतसमाकुलंकुलिशंतंप्रतिमुमोच, सचभयात्प्रतिनिवृत्त्यभगवत्पादौ शरणंप्रपेदे,शक्रोऽप्यवधिज्ञानावलगततद्रव्यतिकरस्तीर्थकराशातनाभयात्शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतःप्रसादात् नास्ति मत्तस्ते भयमिति ८, तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९, तथा असंयताः-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, अत एवाहदशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । अनन्तरसूत्रे चमरोत्पात उक्तः स च रत्नप्रभायाः सञात इति रत्नप्रभावक्तव्यतामाह मू. (१००४) इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाइं बाहल्लेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दस जोयणसताईबाहल्लेणं पन्नत्ते, एवं वेरुलिते १ लोहितक्खे २ मसारगल्ले ३ हंसगब्भे ४ पुलते ५ सोगंधिते ६ जोतिरसे ७ अंजणे ८ अंजणपुलते ९ रतते १० जातरुवे ११ अंके १२ फलिहे १३ रिट्टे १४ जहा रयणे तहा सोलसविधाभाणितव्वा वृ.'इमीसेण मित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहाधिकंयोजनलक्षंबाहल्यतः उपरिमध्येऽधस्ताच्च यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाःक्रमेण षोडशचतुरशीत्यशीतियोजनसहबाहल्या विभागाः सन्ति, 'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते या सा रत्नप्रभा तस्याः पृथिव्या-भूमेर्यत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात्षोडशविधं,तत्रयः प्रथमो भागोरत्नकाण्डंनामतद्दशयोजनशतानि बाहल्येन, सहमेकंस्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापिसूत्राणिवाच्यानि, नवरंप्रथमं सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह____ “एव'मित्यादि, 'पूर्व'मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, 'वेरुलिय'त्ति वैडूर्यकाण्डं, एवंलोहिताक्षकाण्डमसारगल्लकाण्डंहंसगर्भकाण्डमेवंसर्वाणि, नवरंरजतं-रूप्यंजातरूपं-सुवर्णमेते अपि रत्ने एवेति ॥रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह मू. (१००५) सव्वेवि णं दीवसमुद्दा दसजोयणसताइं उव्वेहेणं पन्नत्ता । सव्वेवि णं महादहा दस जोयणाइं उव्वेहेणं पन्नत्ता । सव्वेविणं सलिलकुंडा दसजोयणाई उव्वेहेणं पन्नत्ता सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उव्वेहेण पन्नत्ताओ। वृ. “सव्वे'त्यादि सुगम, नवरमुद्वेधः उंडत्तंति भणियं होइ, द्वीपानां उंडत्तणाभावेऽवि अधोदिशि सहयावद्दवीपव्यपदेशो, जंबूद्वीपेतुपश्चिमविदेहे जगतीप्रत्यासत्तौउंडत्तमविअस्थित्ति महाह्नदाः हिमवदादिषु पद्भादयः, 'सलिलकुंड'त्ति सलिलानां-गङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, 'मुहमूले'त्ति समुद्रप्रवेशे। मू. (१००६) कत्तियानक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति, अनुराधानक्खत्ते सव्वभंतरातो मंडलातो दसमे मंडले चारं चरति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596