Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 575
________________ ५७२ स्थानाङ्ग सूत्रम् १०/-/१००२ तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमर्थो लोकेऽद्भुतभूत इति १, तथागर्भस्य-उदरसत्त्वस्य हरणं-उदरान्तरसङ्कङ्कामणंगर्भहरणंएतदपि तीर्थकरापेक्षयाऽभूतपूर्वसद्भगवतो महावीरस्य जातं, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपल्या उदरे सङ्कमणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति ३, तथा स्त्री-योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थ-द्वादशाङ्ग सङ्घो वा स्त्रीतीर्थं, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पतीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति ३, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतो वर्द्धमानस्यजृम्भिकग्रामनगराबहिरुत्पन्नकेवलस्य तदनन्तरंमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पचरिपालनायैव धर्मकथाबभूव, यतो न केनापितत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति ४, तथा कृष्णस्य-नवमवासुदेवस्य अवरकका राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, श्रूयते हि पाण्डवभार्या द्रौपदी घातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्भराजेन देवसामर्थ्येनापहृता, द्वारकावतीवास्तव्यश्च कृष्णोवासुदेवो नारदादुपलब्धतद्वयतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणंजलधिमतिक्रम्य पद्मराजंरणविमद्देन विजित्यद्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेना पञ्चजन्यः पूरितः कृष्णोनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति ५,। तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६ । मू. (१००३) हरिवंसकुलुप्पत्ती ७ चमरुप्पातो त ७ अट्ठसयसिद्धा९ । अस्संजतेसु पूआ १०, दसवि अनंतेण कालेण॥ वृ.तथाहरेः-पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्पराहरिवंशस्तल्लक्षणंयत्कुलंतस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स तथेति ७, तथा चमरस्य-असुरकुमारराजस्योत्पन-ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरिसौधर्मव्यवस्थितंशक्रंददर्श, ततो मत्सरामातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तंमहावीरंछद्भस्थानवस्थमेकरात्रिकी प्रतिमांप्रतिपन्नं सुंसुमारनगरोद्यान Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596