________________
५६२
स्थानाङ्ग सूत्रम् १०/-/९७८
अपासत्थताते ७ सुसामण्णताते ८ पवयणवच्छल्लयाते ९ पवयणउब्भावणताए १० ।
वृ. 'दसही'त्यादि,आगमिष्यद्-आगामिभवान्तरेभाविभद्रं-कल्याणंसुदेवत्व-लक्षणमनन्तरं सुमानुषत्वाप्राप्तया मोक्षप्राप्तिलक्षणंच येषांते आगममिष्यद्भद्रास्तेषां भावः आगममिष्यद्भद्रता तस्यैआगममिष्यद्भद्रतायैतदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभ-प्रकुर्वते-बध्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाधाराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानं तद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः १,।
दृष्टिसम्पन्नतया-सम्यग्दृष्टितया २, योगवाहितया-श्रुतोपधानकारितयायोगेनवासमाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशील योगवाही तद्भावलस्तता तया ३, क्षान्त्या क्षमत इति क्षान्तिक्षमणः, शान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि क्षमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया ४, जितेन्द्रियतयाकरणनिग्रहेण ५,
_ 'माइलयाए'त्तिमाइल्लो-मायावांस्तप्रतिषेधेनामायावांस्तभावस्तत्तांतया ६, तथा पार्वेबहिर्जानादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तंच॥१॥ “सो पासत्थो दुविहो देसे सव्वे य होइ नायव्यो ।
सव्वंमि नाणदसणचरणाणं जो उपासत्थो॥ ॥२॥ देसंमि उपासत्थो सेजायरभिहडनीयपिडंच।
नीयं च उग्गपिंडं भुंजइ निक्कारणे चेव ॥" इत्यादि, नियतपिण्डो यथा-मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'नीय'मिति नित्यः सदाअग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेव योगृह्यत इति पार्श्वस्थस्य भावः पार्श्वस्थता न साऽपार्श्वस्थता तया ७, तथा शोभनः-पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पनतया च स चासौ श्रमणश्च-साधुः सुश्रमणस्तद्भावस्तत्ता तया ८।
तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं-आगमः प्रवचन-द्वादशाङ्ग तदाधारो वा सङ्घस्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तया ९, तथा प्रवचनस्य-. द्वादशाङ्गस्योद्भावनं-प्रभावनं प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोभावनं तदेव प्रवचनोद्भावनता तयेति १०॥ .. एतानिचागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगोन विधेयइति तत्स्वरूपमाह
मू. (९७९) दसविहे आसंसप्पओगे पं०-इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ दुहतोलोगासंसप्पतोगे ३ जीवियासंसप्पतोगे ४ मरणासंसप्पतोगे ५ कामासंसप्पतोगे ६ भोगसंसप्पतोगे ७ लाभासंसप्पतोगे ८ पूयासंसप्पतोगे ९ सक्कारासंसप्पतोगे १० ।
वृ. 'दसे'त्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो-व्यापारःआशंसाप्रयोगः, सूत्रेच प्राकृतत्वात्आसंसप्पओगेत्ति भणितं, तत्रइह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः-प्राणिवर्गः स इहलोकस्तद्वयतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्रवादरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः १, परलोकाशंसाप्रयोगोयथा भवेयमह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org