Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५६६
स्थानाङ्ग सूत्रम् १०/-/९९१ णं सीओताते महानतीते उभतो कूले दस वक्खारपव्वतापं० २०-विजुप्पभेजाव गंधमातणएवं धायइसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे
वृ. पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह--
मू. (९९२) दस कप्पा इंदाहिट्ठिया पं० तं०-सोहम्मे जावसहस्सारे पाणते अच्चुए, एकेसु णं दससु कप्पेसु दस इंदा पं० तं०-सक्के ईसाणे जाव अच्चुते, एतेसु णं दसण्हं इंदाणं दस परिजाणितविमाणा पं० तं०-पालते पुप्फए जाव विमलवरे सव्वतोभद्दे।
वृ. 'दशे'त्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादानतारणयोस्तु तदनधिष्ठितत्वं तन्निवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यं, यावत्करणात् 'ईसाणे २ सणक्कुमारे ३ माहिंदे ४ बंभलोए ५ लंतगे ६ सुक्के ७'त्ति श्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति दर्शयितुमाह-एएसु'इत्यादि, शक्रः-सौधर्मेन्द्रः, शेषा देवलोकसमाननामानः, शेषं सुगममितित ॥
इन्द्राधिकारादेव तद्विमानान्याह-'एते'इत्यादि, परियानं-देशान्तरगमनं तत्प्रयोजनं येषां तानि परियानिकानिगमनप्रयोजनानीत्यर्थः यानं-शिबिकादि तदाकाराणि विमानानि-देवाश्रया यानवमानानि नतुशाश्वतानि, नगराकारणीत्यर्थः, पुस्तकान्तरेयानशब्दोन गृश्यते, ‘पालए' इत्यादीनिशक्रादीनांक्रमेणावगन्तव्यानीकति, यावत्करणात् ‘सोमनस्से ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६पीइगमे७ मनोरमे ८'इति द्रष्टव्यमिति, आभियोगिकाश्चैतेदेवा विमानीभवन्तीति एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनी प्रतिमा स्वरूपत आह
मू. (९९३) दस दसमिता णं भिक्खुपडिमा णं एगेण रातिदियसतेणं अद्धछटेहि य भिक्खासतेहिं अहासुत्ता जाव आराधितावि भवति
वृ. 'दसे'त्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, 'एकेने त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, 'अहासुत्त'मित्यादि, अहासुत्तं-सूत्रानतिक्रमेण, यावत्करणात् 'अहाअत्थ "अर्थस्यनियुक्त्यादेरनतिक्रमेण 'अहातच्चं' शब्दार्थानतिक्रमेण,
'अहामग्गं' क्षायोपशमिकभावानतिक्रमेण 'अहाकप्पं तदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण ‘फासिया' विशुद्धपरिणामप्रतिपत्त्या ‘पालिया' सीमां यावत्तत्परिणामाहान्या 'शोधिता'निरतिचारतया शोभितावा तत्समाप्तावुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, कीर्त्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् ‘भवति' जायत इति ।।
मू. (९९४) दसविधा संसारसमावनगा जीवा पं० २०-पढमसमयेगिंदिता अपढमसमयएगिदिता एवंजाव अपढमसमयपंचिंदिता १ दसविधा सव्वजीवापं० तं०-पुढविकाइया जाव वणस्सइकातिता बेदिया जाव पंचेंदिता अनिंदिता २ अथवा दसविधा सव्वजीवा पं० तं०पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसयदेवा पढमसमयसिद्धा अपढमसमयसिदा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/de21348b54e0fa6ecc4368049e409d755403e5d9e484c3f5d5bf93dd1c5bd0ba.jpg)
Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596