Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 567
________________ ५६४ स्थानाङ्ग सूत्रम् १०/-/९८२ पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः, तत्र आत्मनः पितृशरीराज्जातः आत्मजः, यथा भरतस्यादित्ययशाः १, क्षेत्रं - भार्या तस्या जातः क्षेत्रजो, यथा पण्डोः पाण्डवाः लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डोः धर्मादिभिर्जनितत्वादिति २, 'दिन्नए' त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेगः श्रूयते स च पुत्रवत्पुत्रः, एवं सर्वत्र ३, 'विन्नए'त्ति विनयितः शिक्षां ग्राहितः, 'उरसे' त्ति उपगतोजातो रसः पुत्रस्नेहलक्षणो यस्मिन्पितृस्नेहलक्षणो वा यस्यासावुपरसः उरसि वा-हृदये स्नेहाद्वर्त्तते यः स ओरसः ५, मुखर एव मौखरो मुखरतया चाटुकरणतोय आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः ६, शोंडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, अथवाऽऽत्मज एव गुणभेदाद्भिद्यते, तत्र ‘विन्नए'त्ति विज्ञकः-पण्डितोऽभयकुमारवत्, 'उरसे' त्ति उरसा वर्त्तत इति ओरसो- बलवान् बाहुबलीवत् शोण्डरीः शूरः वासुदेववत् गर्वितो वा शौण्डरीः 'शौड गर्व' इति वचनात्, 'संवुड्ढे ' ति संवर्द्धितो भोजनदानादिना अनाथपुत्रकः ८, : ‘उवजाइयत’त्ति उपयाचिते - देवताराधने भवः औपयाचितकः, अथवा अवपातः - सेवा सा प्रयोजनमस्येत्यावपातिकः-सेवक इति हृदयं ९, तथा अन्ते- समीपे वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्म्मान्तेवासी, शिष्य इत्यर्थः १० ॥ धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह मू. (९८३) केवलिस्स णं दस अनुत्तरा पं० तं०-अनुत्तरे नाणे अनुत्तरे दंसणे अनुत्तरे चरिते अनुत्तरे तवे अनुत्तरे वीरिते अनुत्तरा खंती अनुत्तरा मुत्ती अनुत्तरे अज्जवे अनुत्तरे मद्दवे अनुत्तरे लाघवे १० । वृ. 'दसे' त्यादि, नास्त्युत्तरं प्रधानतरं येभ्यस्तान्यनुत्तराणि तत्रज्ञानावरणक्षयात् ज्ञानमनुत्तरं एवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाच्चारित्रं, चारित्रमोहक्षयादन्तवीर्यत्वाच्च तपः- शुक्लध्यानादिरूपं वीर्यान्तरायक्षयाद् वीर्यं, इह च तपःक्षांतिमुक्त्यार्जवमार्द्दवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्यविशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति । मू. (९८४) समतखेत्ते णं दस कुरातो पं० तं० पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं० तं० - जंबू सुदंसणा १ धायतिरुक्खे २ महाधायतिरुक्खे ३ पउमरुक्खे ४ महापउमरुक्खे ५ पंच कूडासामलीओ १०, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, तं०-अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदंसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १०/ मू. ( ९८५) दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं० - अकाले वरिसइ काले न वरिसइ असाहू पूइअजंति साहू न पूइज्जंति गुरुसु जणो मिच्छं पडिव अमणुन्ना सद्दा जाव फासा १० । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा तं०-अकाले न वरिसति तं चैव विपरीतं जाव मणुन्ना फासा । Jain Education International For Private & Personal Use Only : www.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596