Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५३०
स्थानाङ्ग सूत्रम् १०/-/९२७
'सद्दाउलय'ति शब्देनाकुलं शब्दाकुलं-बृहच्छब्द, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते श्रृण्वन्तीति, अभाणि च- “सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ ।।" इति
'बहुजणं ति बहवोजना-आलोचनाचार्याः यस्मिन्नालोचने तद्वहुजनं, अयमभिप्रायः॥१॥ “एक्कस्सालोएत्ता जो आलोए पुणोवि अन्नस्स ।
तेचेव य अवराहे तं होइ बहुजणं नाम ॥” इति, अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं तत्सम्बन्धादव्यक्तमुच्यते, उक्तंच"जोयअगीयत्थस्साआलोएतंतुहोइअव्वत्तं" इति तस्सेवित्तियेदोषाआलोचयितव्यास्तत्सेवी योगुरुस्तस्यपुरतोयदालोचनंसतत्सेविलक्षणआलोचनादोषः, तत्र चायमभिप्रायःआलोचयितुः॥१॥ “जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं।
इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणं ॥” इति मू. (९२८) दसहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोएत्तते, तं०-जाइसंपन्ने कुलसंपन्ने एवंजधाअट्ठाणेजाव खंते दंते अमाती अपच्छानुतावी, दसहि ठाणेहिं संपन्ने अनगारे अरिहति आलोयणंपडिच्छित्तए, तंजहा-आयारवंअवहारवंजाव अवातदंसीपितधम्मेदढधम्मे, दसविधे पायच्छित्ते पं० तं०-आलोयणारिहे जाव अणवठ्ठप्पारिहे पारंचियारिहे।
वृ.एतद्दोषपरिहारिणाऽपि गुणवतएवालोचना देयेतितद्गुणनाह-'दसहि ठाणेही'त्यादि, एवं अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियडूरं यावत्खंते दंतेत्तिपदे, तथाहि-'विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्ने'त्ति, 'अमायी अपच्छानुतावी ति पदद्वयमिहाधिकं प्रकटंच, नवरं ग्रन्थान्तरोक्तंतत्स्वरूपमिदं-“नो पलिउंचे अमायीअपच्छयावीन परितप्पे'ति । एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह
‘दसही'त्यादि, आयारवं'तिज्ञानाद्याचारवान् १ 'अवहारवं'तिअवधारणावान् २ जावकरणात् ‘ववहारवं' आगमादिपञ्चप्रकारव्यवहारवान् ३ ‘उव्वीलए' अपव्रीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ पकुव्वी' आलोचिते शुद्धिकरणसमर्थः ५ निजवए' यस्तथा प्रायश्चित्तंदत्तेयथा परोनिर्वोढुमलं भवतीति ६ अपरिस्सावी' आलोचकदोषानुपश्रुत्य योनोद्गिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीतिपूर्वोक्तमेव ८'पियधम्मे ९ दढधम्मे' १० त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः हेढधाय आपद्यपि धनि चलतीति।
आलोचितदोषाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्धयत्यतिचारजातंतत्तदर्हत्वादालोचनाह, तच्छुध्ध्यर्थंयप्रायश्चित्तंतदप्यालोचनाहँ, तच्चालोचमैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्यादुष्कृतं तदर्ह 'तदुभयारिहे' आलोचनाप्रतिक्रमणार्हमित्यर्थः 'विवेगारिहे परित्यागशोध्यं विउसग्गारिहे कायोत्सर्गार्ह तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं मूलारिहे' व्रतोपस्थापनार्ह अणवठ्ठप्पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याहँ, 'पारञ्चियारिहे' एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराञ्चिको-बहिर्भूतः क्रियते तत्पाराञ्चिकं तदर्हमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596