Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 546
________________ ५४३ स्थानं -१०,यत्सङ्खयेयस्य सङ्ख्यानं-परिगणनंतदपिपरिकर्मेत्युच्यते १, एवंसर्वत्रेति, 'व्यवहारः' श्रेणीव्यवहारादिःपाटीगणितप्रसिद्धोऽनेकधा२, रज्जुत्ति, रज्वायत्सङ्ख्यानंतद्रज्जुरभिधीयते, तच्च क्षेत्रगणितं ३, 'रासित्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, सच पाट्यां राशिव्यवहार इति प्रसिद्धः ४, ‘कलासवन्ने य'ति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः-सध्शीकरणं यस्मिन् सङ्ख्याने तत्कलासवर्णं ५, 'जावंतावइत्ति 'जावंतावन्ति वा गुणकारोत्तिवा एगट्ठ'मितिवचनाद् गुणकार'स्तेन यत्सङ्ख्यानं तत्त्थैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एवगुणकराद्याच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयतेतद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् - ॥१॥ “गच्छो वाञ्छोभ्यस्तो वाञ्छयुतो गच्छसङ्गुणः कार्यः। द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः॥" अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणित अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोढशभिर्भागे हृते यल्लभ्यते तशानां सङ्कलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः ‘सशद्विराशिघात' इति वचनात् ७ घंणो यत्ति धनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ 'समत्रिराशिहति'रिति वचनात् ८, 'वग्गवग्गो'त्ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्घयानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति, अपिशब्दः समुच्चये ९, ‘कप्पे यत्ति गाथाधिकं, तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ग्यानं कल्प एव यत्पाट्यांक्राकचव्यवहार इतिप्रसिद्धमिति, इहचपरिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्य,यन्त्यतो न प्रदर्शितानीति १०। . -दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह - मू. (९५७) दसविधे पञ्चक्खाणे पं० (तं०) वृ. 'दसविहे'त्यादिप्रतिकूलतयाआ-मर्यादयाख्यानं-प्रकथनंप्रत्याख्या निवृत्तिरित्यर्थः,। मू. (९५८) अनागय १ मतिकंतं २ कोडीसहियं ३ नियंटितं ४ चेव । सागार ५ मनागरं ६ परिमणकडं ७ निरवसेसं ८॥ संकेयं ९ चेव अद्धाए १०, पच्चक्खाणं दसविहंतु॥ वृ.'अनागय'गाहासार्द्धा 'अनागय'त्तिअनागतकरणादनागतं-पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तंच॥१॥ "होही पज्जोसवणा मम य तया अंतराइयं होज्जा। गुरुवेयावच्चेणं तस्सि गेलनयाए वा ।। सो दाइ तवोकम्मं पडिवज्जइतं अनागए काले । एयं पच्चक्खाणं अनागय होइनायव्वं ।" 'अइक्वंतंति एवमेवातीति पर्युषणादौ करणादतिक्रान्तं, आह च - ॥१॥ “पजोसवणाए तवं जो खलु न करेइ कारणज्जाए। गुरुवेयाणवच्चेणं तवस्सिगेलन्नायाए वा ॥ ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596