________________
५४३
स्थानं -१०,यत्सङ्खयेयस्य सङ्ख्यानं-परिगणनंतदपिपरिकर्मेत्युच्यते १, एवंसर्वत्रेति, 'व्यवहारः' श्रेणीव्यवहारादिःपाटीगणितप्रसिद्धोऽनेकधा२, रज्जुत्ति, रज्वायत्सङ्ख्यानंतद्रज्जुरभिधीयते, तच्च क्षेत्रगणितं ३, 'रासित्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, सच पाट्यां राशिव्यवहार इति प्रसिद्धः ४, ‘कलासवन्ने य'ति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः-सध्शीकरणं यस्मिन् सङ्ख्याने तत्कलासवर्णं ५, 'जावंतावइत्ति 'जावंतावन्ति वा गुणकारोत्तिवा एगट्ठ'मितिवचनाद् गुणकार'स्तेन यत्सङ्ख्यानं तत्त्थैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एवगुणकराद्याच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयतेतद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् - ॥१॥ “गच्छो वाञ्छोभ्यस्तो वाञ्छयुतो गच्छसङ्गुणः कार्यः।
द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः॥" अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणित अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोढशभिर्भागे हृते यल्लभ्यते तशानां सङ्कलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः ‘सशद्विराशिघात' इति वचनात् ७ घंणो यत्ति धनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ 'समत्रिराशिहति'रिति वचनात् ८, 'वग्गवग्गो'त्ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्घयानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति, अपिशब्दः समुच्चये ९,
‘कप्पे यत्ति गाथाधिकं, तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ग्यानं कल्प एव यत्पाट्यांक्राकचव्यवहार इतिप्रसिद्धमिति, इहचपरिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्य,यन्त्यतो न प्रदर्शितानीति १०। .
-दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह - मू. (९५७) दसविधे पञ्चक्खाणे पं० (तं०)
वृ. 'दसविहे'त्यादिप्रतिकूलतयाआ-मर्यादयाख्यानं-प्रकथनंप्रत्याख्या निवृत्तिरित्यर्थः,। मू. (९५८) अनागय १ मतिकंतं २ कोडीसहियं ३ नियंटितं ४ चेव ।
सागार ५ मनागरं ६ परिमणकडं ७ निरवसेसं ८॥
संकेयं ९ चेव अद्धाए १०, पच्चक्खाणं दसविहंतु॥ वृ.'अनागय'गाहासार्द्धा 'अनागय'त्तिअनागतकरणादनागतं-पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तंच॥१॥ "होही पज्जोसवणा मम य तया अंतराइयं होज्जा।
गुरुवेयावच्चेणं तस्सि गेलनयाए वा ।। सो दाइ तवोकम्मं पडिवज्जइतं अनागए काले ।
एयं पच्चक्खाणं अनागय होइनायव्वं ।" 'अइक्वंतंति एवमेवातीति पर्युषणादौ करणादतिक्रान्तं, आह च - ॥१॥ “पजोसवणाए तवं जो खलु न करेइ कारणज्जाए।
गुरुवेयाणवच्चेणं तवस्सिगेलन्नायाए वा ॥
॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org