SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५४४ ॥२॥ सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । एयं पञ्चक्खाणं अइक्कतं होइ नायव्वं ॥” इति २, 'कोडीसहियं' तिकोटीभ्यां एकस्य चतुथदिरन्तविभागोऽपरस्य चतुर्थादिरेवारम्भविभाग इत्येवलंक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च — 11911 "पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । हियं समिति दुन्नि तं भन्नइ कोडिसहियं तु ।। इति 'नियंटियं' ति नितरां यन्त्रितं प्रतिज्ञातदिनदौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च - 11911 “मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । गिलाण व कायव्वो जाव ऊसासो ॥ एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । गित नगारा अनिस्सियप्प अपडिबद्धा || चोद्दसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं खलु थेरावि तया करेसीया ॥” इति, ‘सागारं’ति आक्रियन्त त्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं ५, ‘अनागारं’ति अविद्यमाना आकार- महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपर्त्तुर्यस्मिंस्तदनाकारं, तत्रापि अनाभोगसहसाकारावाकारौ स्यातां मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति६, 'परिमाणकडं' ति परिमाणं सङ्खयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परमाणकृतमिति, यदाह ॥२॥ ॥३॥ __स्थानाङ्ग सूत्रम् १०/-/९५८ - 11911 "दत्तीहि व कवलेहिं व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥” इति 'निरवसेसं'ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वासर्व्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितञ्च - 11911 " सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं । परिहरइ सव्वभावेण एयं भणियं निरवसेसं ॥” इति, 'संकेययं चेव' त्ति केतनं केतः- चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च — 11911 Jain Education International "अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अनंतनाणीहिं ॥” इति - 11911 'अद्धाए' त्ति अद्धायाः - कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि च "अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥” इति ‘पञ्च्चक्खाणं दसविधं तु’त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बन्ध्यते तुशब्द एवकारार्थः For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy