Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 558
________________ स्थानं -१०,गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमाः कृत्वोत्पन्नावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्यनं आनन्द एवोच्यत इति १, 'कामदेवे'त्ति कामदेवश्चम्पानगरीवास्तव्यस्तथैव प्रतिबुधः परीक्षाकारिदेवकृतोपसर्गाविचलितप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थं द्वितीयं कामदेव इति २, . 'गाहावइ चूलणीपिय'त्ति चुलनीपितृनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते ३, 'सुरादेवे'त्ति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य षोडश रोगातङ्कान् भवतः शरीरे समकमुपनयामि यदि धर्मं न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुरालोचितप्रतिक्रान्तस्तथैव दिवंगत इतिव- क्तव्यताभिधायकं सुरादेव इति ४, _ 'चुल्लसयए'त्ति महाशतकापेक्षया लघुः शतकः चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपह्रियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तच्चुल्लशतक इति ५, ‘गाहावइ कुंडकोलिए'त्ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्ग्राहयत उत्तरं ददौ दिवंच ययौ तथा यत्र अभिधीयते तत्तथेति ६, ‘सद्दालपुत्ते'त्ति सद्दालपुत्रः पोलासपुरवासी कुम्भकारजातीयोगोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोधनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबदं सद्दालपुत्र इति ७, 'महासयए'त्ति महाशतकनाम्नो गृहपते राजगृहनगरनिवासिनयोदशभार्यापतेरुपासकप्रतिमाकृतमतेरुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धंमहाशतकइति ८, ‘नंदिणीपियत्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनान्नंदिनीपितृनामकमिति ९, सालइयापिय'त्तिसालइकापितॄनाम्नःश्रावस्तीनिवासिनो गृहमेधिनोभगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मागामिनो वक्तव्यतानिबद्धं सालेपिकापित-नामकंदशमम् इति, १०। दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति॥ मू. (९७१) अंतगडदसाणं दस अज्झयणा पं० (२०) वृ.अथान्तकृद्दशानामध्ययचनविवरणमाह-'अंतगडे'त्यादि, इह चाष्टौ वर्गास्तत्रप्रथमवर्गे दशाध्ययनानि, तानि चामूनिमू. (९७२) नमि १ मातंगे २ सोमिले ३ रामगुत्ते ४ सुदंसणे ५ चेव । जमाली ६त भगालीत ७ किंकमे ८ पल्लतेतिय ९॥ ___फाले अंबडपुत्ते त१०, एमेते दस आहिता ४॥ वृ. 'नमी'त्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596