Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 559
________________ ५५६ स्थानाङ्ग सूत्रम् १०/-/९७२ ॥२॥ ॥१॥ “मगोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य। अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १०॥" इति ततोवाचनान्तरापेक्षाणीमानीतिसम्भावयामः,नचजन्मान्तरनामापेक्षयैतानिभविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति॥ मू. (१७३) अनुत्तरोववातियदसाणं दस अज्झयणा, पं० (तं०) वृ. अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अनुत्तरो'इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्मू. (९७४) ईसिदासे य १ धण्णतेत २, सुणक्खते य ३ कातिते ४ । सट्ठाणे ५ सालि- भद्दे त ६, आणंदे ७ तेतली ८ तित दसन्नभद्दे ९ अतिमुत्ते १०, एमेते दस आहिया ५ ॥ वृ. 'इसिदासे'त्यादि, तत्र तु दृश्यते “धन्ने य सुनक्खत्ते, इसिदासे यआहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय॥ पेढालपुत्ते अनगारे, अनगारे पोट्टिले इय। विहल्ले दसमे वुत्ते, एमेए दस आहिया ।।" इति तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभागउक्तोनपुनरुपलभ्यमानवाचनापेक्षयेति, तत्रधन्यकसुनक्षत्रकथानकेएवं-काकन्यांनगाँभद्रासार्थवाहीसुतोधन्यको नाममहावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानांश्रमणसहाम्राणांमध्येऽतिदुष्करकारक इतिमहावीरेणव्याहृतस्तेनचराज्ञासभक्तिकंवन्दितउपबृंहितश्च कालंचकृत्वासर्वार्थसिद्धविमान उत्पन्न इति, एवंसुनक्षत्रोऽपीति, कार्तिक इतिहस्तिनागपुरे श्रेष्ठीइभ्यसहस्रप्रथमासनिकःश्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनंपरिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यांप्रतिपन्नवान् द्वादशाङ्गधरोभूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, __'शालिभद्र' इति यः पूर्वभवसङ्गमनामावत्सपालोऽभवत्, सबहुमानंचसाधवेपायसमदात्, राजगृहे गोभद्रवेष्ठिनः पुत्रत्वेनोत्पन्नो, देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसनकुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहम्यतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेतिश्रवणाजातकुतूहलेदर्शनार्थंगृहमागतश्रेणिकमहाराजेजनन्याऽभिहितो-यथा त्वांस्वामी द्रष्टुमिच्छतीत्यवतरप्रासादश्रृङ्गात्स्वामिनंपश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति, 'तेतलीतिय'त्तितेतलिसुत इतियोज्ञाताध्ययनेषुश्रूयते, सनायं, तस्य सिद्धिगमनश्रवणात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596