Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५५२
स्थानाङ्ग सूत्रम् १०/-/९६६
मू. (९६६) दस ठाणाइंछउमत्थेणं सव्वभावेण नजाणतिन पासति, तं०-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा न वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा नवा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सव्वदुक्खाणमंतं करेस्सति वा नवा करेस्सति।
वृ. 'दसे' त्यादि गतार्थं, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, ‘सव्वभावेणं'ति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकाययावत्करणादधर्मास्तितकायंआकाशास्तिकायंजीवमशरीरप्रतिबद्धपरमाणुपुद्गलं शब्दंगन्धमिति, ‘अय'मित्यादिद्वयमधिकमिह,तत्रायमिति-प्रत्यक्षज्ञानसाक्षात्कृतो 'जिनः' केवली भविष्यति न वा भविष्यतीति नवमं, तथाऽयं 'सव्वे'त्यादि प्रकटं दशममिति।
एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च“एयाई'इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वन्नू सव्वभावेण जाणइ पासइ, तंजहाधम्मत्थिकाय'मित्यादि, यावद्दशमं स्थानं, तचोक्तमेवेति । सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह
मू. (९६७) दस दसाओ पं० तं०-कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववायदसाओआयारदसाओपण्हावागरणदसाओबंधदसाओदोगिद्धिदसाओदीहदसाओ संखेवितदसाओ। कम्मविवागदसाणं दस अज्झयणा पं० तं०
वृ. 'दसदसे' त्याघेकादशसूत्राणि, तत्र 'दसत्तिदशसङ्ख्या ‘दसाउत्तिदशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तर स्त्रीलिंङ्गं शास्त्रस्याभिधानमिति, कर्मणः-अशुभस्य विपाकःफलं कर्मविपाकःतप्रतिपादिका दशध्ययनात्मकत्वाद्दशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति,
तथा साधून् उपासते-सेवन्त इत्युपासकाः-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशादशाध्ययनोपलक्षिताउपासकदशाः सप्तममङ्गमिति, तथा अन्तो-विनाशः सचकर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्घयोपलक्षितत्वादन्तकृशा इत्यभिधानेनाष्टममङ्गमभिहितं, तथा उत्तरः-प्रधानोनास्योत्तरोविद्यतइत्यनुत्तरः उपपतनमुपपतोजन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा, ___दशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधाआचारप्रतिपादनपरादशा-दशाध्ययनात्मिकाआचारदशाः, दशाश्रुतस्कन्ध इतियारूढाः, तथाप्रश्नाश्च-पृच्छाः व्याकरणानिच-निर्वचनानिप्रश्नव्याकरणानितप्रतिपादिका दशाः-दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासझेपिकदशाश्चास्माकमप्रतीता इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6624dca6781018777086494f24e8e666b46bc2b7b57b369c05e743f0a7395bec.jpg)
Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596