Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 554
________________ स्थानं - १०, - श्रद्धत्ते स धर्म्मरुचिरिति ज्ञेयः, यदगादि 11911 ५५१ “जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो । इति अयं च सम्यग्धष्टिर्दशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आहमू. (९६४) दस सण्णाओ पं० तं० - आहारसण्णा जाव परिग्गहसण्णा ४ कोहसण्णा जाव लोभसण्णा ८ लोगसण्णा ९ ओहसण्णा १०, नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४ / वृ. ‘दसे' त्यादि संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा-वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेत्याहारसंज्ञा, तथा भयवेदनीयोदयाद्भयोम्द्रन्तस्य दृष्टिवदनविकाररोमाञ्चोदभेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयान्मैथुनाय स्त्र्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायते ऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सच्चित्तेतरद्रव्यो- पादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयात्तदावेशगर्भा प्ररूक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयाल्लालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा १०, ततश्चौधसंज्ञा दर्शनीयपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसंज्ञा लोकष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तुप्रायो यथोक्तक्रियानिबन्धकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छब्दौ व्याख्यातार्थी, एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- 'नेरइये 'त्यादि, 'एवं चेव' त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः 'एवं निरन्तर' मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति । मू. (९६५) नेरइया णं दसविधं वेयणं पञ्च्चनुभवमाणा विहरंति, तं० - सीतं १ उसिणं २ खुधं ३ पिवासं ४ कंडुं ५ परज्झं ६ भयं ७ सोगं ८ जरं ९ वाहिं १० । 1 वृ. तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति- 'नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनां पीडां तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु क्षुधं बुभुक्षां पिपासां तृषं कण्डूं खर्जु 'परज्झं ति परतन्त्रतां भयं भीतिं शोकं दैन्यं जरां वृद्धत्वं व्याधिं ज्वरकुष्ठादिकमिति । अमुं च वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596