Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं - १०,
५३७
मनो-मानसं ७ वाग्-वचनं दुष्प्रत्युक्ता ८ कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्तौ खङ्गादेरुपकरणत्वात् कायग्रहणेनैव तद्गहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० ।
मू. (९४६) दसविहे दोसे पं० (तं०) -
मू. (९४७) तज्जातदोसे १ मतिभंगदोसे २ पसत्थारदोसे ३ परिहरणदोसे ४ ।
सलक्खण ५ क्कारण ६ हेउदोसे ७, संकामणं ८ निग्गह ९ वत्थुदोसे १० ॥
वृ. अविरत्यादयो दोषाः शमित्युक्तमिति दो प्रस्तावाद्दोषविशेषनिरूपणायाह‘दसविहे’त्यादि, ‘तज्जाये’त्यादि वृत्तं, एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोर्वा वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुवदिर्जातं जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमिति - कृत्वादोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात् प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मुखस्तम्भादिल- क्षणो दोषस्तज्जातदोषः १ तथा स्वस्यैव मतेः-बुद्धेर्भङ्गोविनाशो मतिभङ्गो - विस्मृत्यादिलक्षणो दोष मतिभङ्गदोषः २ तथा प्रशास्ता- अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टा- दुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः ३,
इत्याशब्दो लघुश्रुतिरिति तथा परिहरणं- आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्यतदेव दोषः, परिहरणदोषः, अथवा परिहरणं-अनासेवनं सभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्य दूषणस्य असम्यक्परिहारो जात्युत्तरं परिहणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदिति, अत्र मीमांसकः परिहारमाह-ननुघटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं ?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः, अथ शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्य धारणानैकान्तिको हेतुरित्ययं न सम्यक् परिहारः,
एवं हि सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्म्ममात्रात् साध्यधर्म्ममात्रनिर्णयात्मकं, अन्यथा धूमादनलानुमानमपि न सिद्धेत्, तथाहि अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यतेकिमत्रेतिशब्दानिर्द्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो ?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानैकान्तिको हेतुः, अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्त्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति ४,
तथा लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं च स्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्म्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, ध्ष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽर्थं द्विबद्ध ध्येयः ७,
अथवा सह लक्षणेन यौ कारणहेतू तयोर्दोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिर्व्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596