Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 528
________________ स्थानं-१०, ५२५ तथा 'माउयानुओगे'त्ति इह मातृकेव मातृका-प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयीतस्याअनुयोगो, यथाउत्पादवज्जीवद्रव्यंबाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनाद्अनुत्पादे च वृद्धाद्यवस्थानमप्राप्तिसङ्गादसमञ्जसापत्तेः, तथा व्यवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागमकृतविप्रणाशप्राप्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेनचसकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमतो द्रव्यमित्यादि मातृकापदानुयोगः, २, तथा एगट्ठियानुओग'त्तिएकश्चासावर्थश्च-अभिधेयोजीवादिः सयेषामस्तितएकार्थिकाःशब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, एकाथिकानुयोगोयथाजीवद्रव्यंप्रतिजीवः प्राणी भूतःसत्त्वः, एकाथिकानांवाऽनुयोगोयथाजीवनात्-प्राणधारणाजीवः, प्राणानां-उच्छवसादी-नामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात्सत्त्वः इत्यादि ३, तथा 'करणानुओगो'त्ति क्रियते एभिरितिकरणानि तेषामनुयोगः करणानुयोगः, तथाहिजीवद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीवः किञ्चन कर्तुमलमिति, मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति ४, तथा 'अप्पियानप्पिए'त्ति द्रव्यं ह्यर्पितं-विशेषितं यथा जीवद्रव्यं, किंविधं? -संसारीति, संसार्यपि त्रसरूपं त्रसपूपमपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितं-अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानप्तिं द्रव्यं भवतीति द्रव्यानुयोगः ५,। . तथा ‘भावियाभाविए'त्तिभावितं-वासितंद्रव्यान्तरसंसर्गतः अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्त-भावितंचेतरभावितं, तद्विविधमपिवामनीयमवामनीयंच, तत्रवामनीयं यत्संसर्गजंगुणंदोषंवा संसर्गान्तरेणवमति,अवामनीयंत्वन्यथा, अभावितंत्वसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पंन वासयितुंशक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितंच अभावितं च भावताभावितम्, एवम्भूतो विचारो द्रव्यानुयोग इति ६, तथा बाहिराबाहिरे त्तिबाह्याबाह्य, तत्रजीवद्रव्यंबाह्यंचैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात्तदेवाबाह्यममूर्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्य जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवाघटादिद्रव्यंबाह्यं कर्मचैतन्यादित्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति७, तथा 'सायासासए'त्ति शाश्वताशाश्वतं, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाण'त्तियथावस्तु तथा ज्ञानं यस्यतत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात, अथवा यथा तद्वस्त तथैव ज्ञानं-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं,घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596