Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 497
________________ ४९४ मू. (८४५) भद्दे सुभद्दे सुजाते सोमनसे पितदरिसणे । सुदंसणे अमोहे य सुप्पबुद्धे जसोधरे ॥ वृ. अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुः परिमाण भेदानाह स्थानाङ्ग सूत्रम् ९//८४५ मू. (८४६) नवविहे आउपरिणामे पं० तं०-गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामेउड्ढंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे । वृ. 'नवविहे 'त्यादि, 'आउपरिणामे' त्ति आयुषः कर्मप्रकृतिविशेषस्य परिणामः-स्वभावः शक्ति धर्म्म इत्यायुःपरिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गति परिणामः १, तथा येनायुः स्वभावेन प्रति नियतगतिकर्म्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बघ्नाति न देवनरकगतिनामकर्मेति स गतिबन्धनपरिणामः २, तथा आयुषो या अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः ३, तथा येन पूर्वभवायुः परिणामेन परभवायुषो नियतां स्थितिं बघ्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुः परिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगौरवपरिणामः, इह गौरवशब्दो गमनपर्याय: ५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्य दीर्घंदीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्धस्वं गमनं स हस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति९ मू. (८४७) नवनवमिता णं भिक्खुपडिमा एगासीते रातिंदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति । वृ. अनन्तरमायुः परिणाम उक्तः, तत्रैव चायुः परिणामविशेषे सति तपःशक्तिर्भवतीति तपोविशेषाभिधानायाह- 'नवनवमिए' त्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः- अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति । मू. (८४८) नवविधे पायच्छित्ते पं० - आलोयणारिहे जाव मूलारिहे अनवठप्पारिहे । वृ. इयं च जन्मान्तरकृतपापकर्म्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रं, तच्च गतार्थमिति प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय 'जंबूदीवेत्यादि एरवए कूडनामाई' इत्येतदन्तं सूत्रप्रपञ्चमाह - मू. (८४९) जंबूमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूड़ा पं० (तं०) - वृ. सुगमश्चायं, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थं दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596