________________
४९४
मू. (८४५)
भद्दे सुभद्दे सुजाते सोमनसे पितदरिसणे । सुदंसणे अमोहे य सुप्पबुद्धे जसोधरे ॥
वृ. अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुः परिमाण
भेदानाह
स्थानाङ्ग सूत्रम् ९//८४५
मू. (८४६) नवविहे आउपरिणामे पं० तं०-गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामेउड्ढंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे ।
वृ. 'नवविहे 'त्यादि, 'आउपरिणामे' त्ति आयुषः कर्मप्रकृतिविशेषस्य परिणामः-स्वभावः शक्ति धर्म्म इत्यायुःपरिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गति परिणामः १, तथा येनायुः स्वभावेन प्रति नियतगतिकर्म्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बघ्नाति न देवनरकगतिनामकर्मेति स गतिबन्धनपरिणामः २, तथा आयुषो या अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः ३,
तथा येन पूर्वभवायुः परिणामेन परभवायुषो नियतां स्थितिं बघ्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुः परिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगौरवपरिणामः, इह गौरवशब्दो गमनपर्याय: ५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्य दीर्घंदीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्धस्वं गमनं स हस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति९
मू. (८४७) नवनवमिता णं भिक्खुपडिमा एगासीते रातिंदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति ।
वृ. अनन्तरमायुः परिणाम उक्तः, तत्रैव चायुः परिणामविशेषे सति तपःशक्तिर्भवतीति तपोविशेषाभिधानायाह- 'नवनवमिए' त्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः- अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आराधिता चापि भवतीति ।
मू. (८४८) नवविधे पायच्छित्ते पं० - आलोयणारिहे जाव मूलारिहे अनवठप्पारिहे । वृ. इयं च जन्मान्तरकृतपापकर्म्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्रं, तच्च गतार्थमिति प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय 'जंबूदीवेत्यादि एरवए कूडनामाई' इत्येतदन्तं सूत्रप्रपञ्चमाह -
मू. (८४९) जंबूमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूड़ा पं० (तं०) - वृ. सुगमश्चायं, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थं दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org