________________
स्थानं - ९,
मू. (८५०) सद्धे १ भरहे २ खंडग ३ माणी ४ वेयड्ड ५ पुन्न ६ तिमिसगुहा ७ । भरहे ८ वेसमणे ९ या भरहे कूडाण नामाई ॥
मू. (८५१) जंबूमंदिरदाहिणेणं निसभे वासहरपव्वते नव कूड़ा पं० (तं०) -
वृ. 'सिद्धे' गाहा, तत्र सिद्धायतनयुक्तं सिद्धकूटं सक्रोशयोजनषट्कोच्छ्रयमेतावदेव मूले विस्तीर्णं एतदर्द्धापरिविस्तारं क्रोशायामेनार्द्धक्रोशविष्कम्भेण देशोनक्रोशोच्चेनापरदिग्द्वारवर्ज्जपञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूटं,
‘खंडग’त्ति खण्डप्रपाता नाम वैताढ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, 'माणी'ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटं ‘वेयड्ड' त्ति वैताढ्यगिरिनाथदेवनिवासा - द्वैताढ्यकूटमिति 'पुन्न'त्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नाम गुहा यया स्वक्षेत्राच्चकवर्त्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति,
४९५
'भरहे’त्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति ।
मू. (८५२) सिद्धे १ निस २ . हरिवास ३ विदेह ४ हरि ५ धिति ६ अ सीतोता ७ । अवरविदेहे ८ रुयगे ९ निसभे कूडाण नामाणि ।।
वृ. 'सिद्धे' गाहा, सिद्धेत्ति सिद्धायतनकूटं तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषदकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटं, एवं विदेहकूटमपि, ह्रीदेवीनिवासो ह्रीकूटं, एवं धृतिकूटं, शीतोदा नदी तद्देवीनिवासः शीतोदाकूटं, अपरिविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठतृदेवनिवासो रुचककूटमिति ।
मू. (८५३) जंबूमंदरपव्वते नंदनवने नव कूड़ा पं० (तं०)
मू. (८५४) नंदने १ मंदरे २ चेव निसहे ३ हेमवते ४ रयय ५ रुयए ६ य । सागरचित्ते ७ वइरे ८ वलकूडे ९ चेव बोद्धव्वे ॥
वृ. 'नंदने' त्ति नन्दनवनं मेरोः प्रथममेखलयां तत्र नव कूटानि 'नंदन' गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धयतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृत्ताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात्सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रसादाद्धक्षिणतो नन्दनकूटं तत्र देवी मेघङ्करा 9, तथ पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटं, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमं, देव्यस्तु निषधकूटे सुमेघा हैमवतकूटे मेघमालानी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति ।
मू. (८५५)
जंबूमालवंतवक्खापरपव्वते नव कूड़ा पं० (तं०) -
मू. (८५६) सिद्धे १ य मालवंते २ उत्तरकुरु ३ कच्छ ४ सागरे ५ रयते ६ । सीता ७ तह पुन्नणामे ८ हरिस्सहकूडे ९ य बोद्धव्वे ॥
मू. (८५७)
जंबू० कच्छे दीहवेयड्ढे नव कूड़ा पं० (तं०) -
वृ. 'मालवंते' इत्यादि, 'सिद्धे' गाहा, माल्यवान्पूर्वोत्तरो गजदन्तपर्वतः तत्र सिद्धायतनकूटं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International