Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायाङ्गसूत्रम्-१२/२१
पार्श्वस्थादेः कुर्वस्तथैवासम्मोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्गरतां च-प्राघूर्णकग्लानाद्यवस्थायं किं विश्रामणाद करोपीतयेवंप्रश्नलक्षणांतथाऽम्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं,तथाअविभक्तिच-अपृथग्भावलक्षणां कुर्वनशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति । मू. (२२) किअकम्मस्स य करणे, वेयावच्चकरणे इ।
समोसरणं संनिसिज्जा य, कहाए अ पबन्धणे ।। वृ तथा 'किइकम्मस्स य करणे'त्ति कृतिकरम्-वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधि-यः साधुतिन स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमाक्र्तशिरोनमनादि यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः, तथा 'वेयावच्चकरणे इय'त्ति वैयावृत्त्यआहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति ।
तथा 'समोसरणं'ति जिनस्रपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन तत्समवसरणं, इह चक्षेत्रमाश्रित्य साधूनांसाधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेनचान्येऽप्यवग्रहाउपलक्षिताः,तेचानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धावासावग्रश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् द्यादिभि साधुभिःभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टया अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृहणन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याच, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्र परिहरन्त्येव, अथ पार्श्वभादीनां क्षेत्र विस्तीर्ण संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृहणन्ति प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च॥१॥ “समणुन्नमसमणुन्ने अदिन्नणाभवगिण्हमाणे वा ।
सम्भोगवीसुकरणं इयरे य अलंभ पेल्लंति ॥ तथा 'सन्निसिजाय'त्ति सन्निषद्या-आसनविशेषः, सा च सम्भोगासम्भोगकारणंभवति, तथाहिसंनिषद्यागतआचार्यो निषधागतेन सम्भोगिकाचार्येणसह श्रुतपरिवर्तनांकरोति शुद्धः, अथामनोज्ञपावस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थोपृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति।
तथा 'कहाए य पबंधणे'त्ति कथा-वादादिका पञ्चधा तस्याः प्रवन्धन-प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनसछलजातिविरहितो भूतान्वेिषणपरोवादः,सएवछलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथ प्रकीर्णकथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204